SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् -२-२२/-/-/५२९ चिन्तयति - 'जस्स णं भंते! नेरइयस्स काइयाकिरिया कज्जति' इत्यादि प्रतीतं, भावितत्वात् । तदेवमेको दण्डक उक्तः, सम्प्रति कालमधिकृत्योक्तप्रमारेणैव द्वितीयदण्डकमाह 'जं समयं णं भंते! जीवस्स काइया किरिया कज्जइ तं समयं अहिगरणिया कज्जइ जं समयं अहिगरणिया कज्जइ' इत्याद्यारभ्य सर्वं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह - 'एवं जहेव आइल्लतो दंडओ तहेव भाणियव्वो जाव वेमाणियस्स' इति, समयग्रहणेन चेह सामान्यतः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तस्वरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथमसमये एवासम्भवात्, एष द्वितीयो दण्डकः, सम्प्रति द्वौ दण्डक क्षेत्रमधिकृत्याह 'जंदेसेणं भंते ! जीवस्स' इत्यादि, अत्रापि सूत्रं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह- 'तहेव जाव वेमाणियस्स' एष तृतीयदण्डकः, 'जंपएसेणं भंते! जीवस्स काइया किरिया कज्जइ' इत्यादिकश्चतुर्थः, अत्रापि सूत्रं प्रागुक्तक्रमेण तावद् वक्तव्यं यावद्वैमानिकसूत्रं, यथा चाह - 'एवं तहेव जाव वेमाणिए' इति, दण्डकसङ्कलनामाह - 'एवमेते' इत्यादि, एताश्च यथा ज्ञानावरणीयादिकर्मबन्धकारणं तथा संसारकारणमपि, ज्ञानावरणीयादिकर्मबनधस्य संसारकारणतया तद्धेतुत्वेन तासामपि संसारकारणत्वोपचारात्, तथा चाह- 'कइ णं भंते! आजोजियाओ किरियाओ पन्नत्ताओ' इत्यादि, आयोजयन्ति जीवं संसारे इत्यायोजिकाः - कायिक्यादिकाः शेषं सर्वं सुगमं, सूत्रपाठस्तु पूर्वोक्तप्रकारेण तावद् वक्तव्यो यावत् यस्येति यं समयमिति यंदेशमिति यं प्रदेशमिति परिपूर्णाश्चत्वारो दण्डकाः, 'यं समय' मित्यादौ, तु 'कालाध्वनोव्याप्ता' वित्यधिकरणे द्वितीया, ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे इति व्याख्येयं १५८ 'जीवे णं भंते! जं समयं काइयाए अहिगरणियाए' इत्यादि, अत्रापि समयग्रहणेन सामान्यतः कालो गृह्यते, प्रश्नसूत्रं सुगमं, निर्वचनसूत्रे भङ्गत्रयी - कञ्चिज्जीवमधिकृत्य कश्चिज्जीवो यस्मिन् समये-काले क्रियायेण स्पृष्टस्तस्मिन् समये पारितापनिक्याऽपि स्पृष्टः प्राणातिपातक्रियया चेत्येको भङ्गः, पारितापनिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः, पारितापनिक्या प्राणातपातक्रियया चास्पृष्ट इति तृतीयः, एष च तृतीयो भङ्गो बाणादेर्लक्षात्परिभ्रंशेन घात्यस्य मृगादेः परितापनाद्यसम्भवे वेदितव्यः, यस्तु यस्मिन् समये यं जीवमधिकृत्याद्यक्रियात्रयेणास्पृष्टः स तस्मिन् समये तमधिकृत्य नियमात् पारितापनिक्या प्राणातिपातक्रियया चास्पृष्टः, कायिक्याद्यभावे परितापनादेरभावात् तदेवमुक्ताः क्रियाः, साम्प्रतं प्रकारन्तरेण क्रिया निरूपयति मू. (५३०) कति णं भंते! किरियाओ पन्नत्ताओ ?, गो० ! पंच किरियाओ पं०, तंo - आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया मिच्छादंसणवत्तिया, आरंभिया णं भंते ! किरिया कस्स कज्जति ?, गो० ! अन्नयरस्सवि पमत्तसंजयस्स, परिग्गहिया णं भंते! किरिया कस्स कज्जइ ?, गो० ! अन्नयरस्सवि संजयासंजयस्स, मायावत्तिया णं भंते! किरिया कस्स कज्जति ?, गो० ! अन्नयरस्सावि अपमत्तसंजयस्स, अपच्चक्खाणकिरिया णं भंते! कस्स कज्जति ?, गो० ! अन्नयरस्सवि अपञ्चक्खाणिस्स, मिच्छादंसणवत्तिया णं भंते ! किरिया कस्स कज्जति ?, गो० ! अन्नयरस्सावि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy