SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पदं- २२, उद्देशक:-, द्वारं १५५ वचनात्, शेषान् सङ्घयेयवर्षायुषः प्रति पञ्चक्रियोऽपि तेषामवत्त्यायुष्कतया जीविताद् व्यपरोपणस्यापि सम्भवात्, तदेवमेकस्य जीवस्य एकं जीवं प्रति क्रियाश्चिन्तिताः, सम्प्रत्येकस्यैव जीवस्य बहून् जीवान् प्रति क्रियाश्चिन्तयति 'जीवेणं भंते! जीवेहिंतो कइकिरिए पन्नत्ते' इत्यादि, एषोऽपि दण्डकः प्राग्वद्भावनीयः, अधुना बहूनां जीवानामेकं जीवमधिकृत्य क्रियाश्चिन्तयति- 'जीवाणं भंते! जीवातो कइकिरिया पं०' इत्यादि, एषोऽपि दण्डकः प्रथमदण्डकवदवसेयः, अधुना बहूनां जीवानां बहून् जीवानधिकृत्य सूत्रमाह 'जीवा णं भंते ! जीवेहिंतो कइकिरिया पं० ?' इत्यादि, अत्र प्रश्नः पाठसिद्धो, निर्वचनमिदं - गौतम ! त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि अक्रिया अपि, कस्यापि जीवस्य कमपि जीवं प्रति त्रिक्रियत्वात् कसल्यापि चतुष्क्रियत्वात् कस्यापि पञ्चक्रियत्वात् कस्यापि मनुष्यस्य सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषस्याक्रियत्वात् इति सर्वत्र बहुवचनरूप एक एव भङ्गः, एवं नैरयिकादिक्रमेण तावद् वक्तव्यं यादद्वैमानिकसूत्रं, नवरं नैरयिकान् दैवांश्च प्रति त्रिक्रिया अपि चतुष्क्रिया अपि अक्रिया अपीति वक्तव्यं, शेषान् सङ्घयेयवर्षायुषः प्रति पञ्चक्रिया अपीति, तदेवं सामान्यतो जीवपदमधिकृत्य दण्डकचतुष्टयमुक्तं, सम्प्रति नैरयिकपदमधिकृत्याह'नेरइए णं भंते! जीवातो कतिकिरिए पं०' इत्यादि 'एवं जाव वेमाणिएहिंतो' इति, अत्र यावत्करणात् 'नैयरिको जीवान् प्रति कतिक्रिय' इति इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः, सर्वत्र औदारिकशरीरान् सङ्घयेयवर्षायुषः प्रति स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रिय इति वक्तव्यं, नैरयिकस्य देवान् प्रति पञ्चमी जीविताद् व्यपरोपणरूपा क्रिया नास्ति, तेषामनपवर्त्यायुष्कत्वात्, ततस्तान् प्रति स्यात् त्रिक्रियः स्याच्चतुष्क्रिय इति वक्तव्यं, नैरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत्, उच्यते, इह भवनवास्यादयो देवास्तृतीयां पृथिवींयावत् गता गमिष्यन्ति च, किमर्थं गता गमिष्यन्तीति चेत् ?, उच्यते, पूर्वसाङ्गतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुदीरयितुं (वा) तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति (यद्) तद्गताः सन्तो नारकैर्बध्यन्ते इति, आह च मूलटीकाकारोऽपि - " तत्र गता नारकैर्बध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्र" मिति, अत्रापर आह- ननु नारकस्य द्वीन्द्रियादीनधिकृत्य कथं कायिक्यादिक्रियासम्भवः ?, उच्यते, इह नारकैर्यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं विवेकाभावात्, तदभावश्च भवप्रत्ययात्, ततो यावत् शरीरं तेन जीवेन निर्वर्त्तितं सत् तं शरीरपरिणामं सर्वथा न परित्यजति तावद् देशतोऽपि तं परिणामं भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत्, यथा हि घृतपूर्णो घटो घृते अपगतेऽपि घृतपट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्त्तितमिति तस्येति व्यपदेशमर्हति, ततस्यस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्तः प्राणातिपातं करोति, ततः पूर्वनिर्वर्त्तितशरीरजीवोऽपि कायिक्यादिक्रियाभिर्युज्यते, तेन तस्याव्युत्सृष्टत्वात्, तत्रेयं पञ्चानामपि क्रियाणां भावनातत्कायस्य व्याप्रियमाणत्वात् कायिकी कायोऽ धिकरणमपि भवतीत्युक्तं प्राक् तत आधिकरणिकी, प्राद्वेषिक्यादयस्त्वेवं- यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा, तस्मिन् घात्ये द्वीन्द्रियादी For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy