________________
१५४
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २२/- // ५२८ णोऽपि तत एतस्यार्थस्य प्रतिपादनार्थमिदं सूत्रम्, अस्य चेयं पूर्वाचार्योपदर्शिता भावना - 'इह संसारअडवीए परिब्भमंतेहिं सव्वजीवेहिं तेसु तेसु ठाणेसु सरीरोवहाइणो विप्पमुक्का तेहि य सत्थभूएहिं जया कस्सइ स्वतः परितापनादयो भवंति तया तस्सामिणो भवंतरगयस्सवि तत्रानिवृत्तत्वात् किरियासम्भव इति, व्युत्सृष्टेषु तु न भवति निवृत्तत्वात्,
एत्थ उदाहरणं-वसंतपुरे नयरे अजियसेनस्स रन्नो पडिचारगा दुवे कुलपुत्तगा, तत्थेगो समणसड्डो इयरो मिच्छद्द्द्दिट्ठी, अन्नया रयणीए रन्नो निस्सरणं संभमतुरंताण तेसिं घोडगारूढाणं खग्गा पब्भट्ठा, सड्डेण जनकोलाहलो मग्गिओ न लहइ, इयरेण हसियं-किमण्णं न होहि ?, सङ्केण अहिगरणंतिकट्टु वोसिरियं, इयरे च खग्गग्गाहिणो बंदिग्गहसाहसिएहिं लद्धा, गहिओ अन्नेहि रायवल्लो पलयमाणो वावाइओ, तओ आरक्खिएहिं गहिऊण रायसमीवं नीया, कहिओ वृत्तंतो, कुविओराया, पुच्छियं चणेण - कस्स तुब्भो ? तेहिं कहियं - अणाहा - कल्लं चिय, कप्पडिया एए तुम्हाखग्गा कहिं लद्धत्ति, पुच्छिएहिं कहियं पडिया इति, तओ सामरिसेण रण्णा भणियं - गवेसह तुरियं मम अणबद्धवेरिणं ईसरपुत्ताणं महापमत्ताणं केसि इमे खग्गेत्ति ?, तओ तेहिं निउणं गवेसिऊण विण्णत्तं रण्णो- सामि ! गुणचंदबालचंदाणमिति, ततो रण्णा पिहं पिहं सद्दावेऊण भणिया-लेह नियखग्गे, एक्केण गहियं, पुच्छिओ रण्णा - कहं ते पणट्ठेति ?, तेण कहियं जहावित्तं, कीस न गविट्ठे ?, भणइ - सामि ! तुम्ह पसाएणं एद्दहमेत्तमवि गवेसामि ?, सड्डो नेच्छइ, रण्णा पुच्छिओ - कीस न गेण्हसि ?, तेण भणियं - सामि ! अम्हाणमेस ठिई चेव नत्थि जमेवं गेण्हिज्जइ अहिगरणत्तणओ, परं संभमेण मग्गंतेणवि न लद्धंति वोसि यं अतो न कप्पइ मे गिण्हिउं, तओ रन्ना पमायकारी अनुसासिओ, इयरो विमुक्को, एस दिट्ठता इमो य से अत्थोवणओ-जहा सो पमायगब्भेण अवोसिरियदोसेण अवराहं पत्तो एवं जीवोवि जम्मंतरत्थं देहोवहाइ अवोसिरंतो अनुमयभावतो पावेइ दोसं ?, श्रूयते च जातिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् (केचित्) सुरनदीं प्रत्यस्थिशकलानि नयन्तीति । इतानमीं सूत्रव्याख्या
वो भदन्त ! जीवमधिकृत्य कतिक्रियः प्रज्ञप्तो ?, भगवानाह - गौतम ! स्यात् क्वचित् त्रिक्रियः कायिक्याधिकरणिकीप्राद्वेषिकीभावात्, तत्र वर्त्तमानभवमधिकृत्य भावना प्राग्वत् भावनीया, अतीतभवमधिकृत्यैवं कायिकी तत्सम्बन्धिनः कायस्य कार्येकदेशस्य वा व्याप्रियमाणत्वात्, आधिकरणिकी तत्संयोजितानां हलगरकूटयन्त्रादीनां तन्निर्वर्त्तितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात्, यदिवा देहोऽप्यधिकरणमित्याधिकरणिक्यपि, प्राद्वेषिकी तद्विषयाऽकुशलपरिणामप्रवृत्तेरप्रत्याख्यातत्वात्, स्याच्चतुष्क्रियः पारितापनिक्यपि कायेन कायैकदेशेनाधिकरणेन वा तत्सम्बन्धिना क्रियमाणत्वात्, स्यात्पञ्चक्रियो यदा तेन जीवितादपि व्यपरोपणमाधीयते, स्यादक्रियो यदा पूर्वजन्मभावि शरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्सृष्टं भवति, न चापि तज्जन्मभाविना शरीरेण काञ्चिदपि क्रियां करोति, इदं चाक्रियत्वं मनुष्यापेक्षया द्रष्टव्यं तस्यैव सर्वविरतिभावात्, सिद्धापेक्षया वा, तस्य देहमनोवत्त्यभावेनाक्रियत्वात्, अमुमेवार्थं चतुर्विंशतिदण्डकक्रमेण निरूपयति
'जीवे णं भंते ! नेरइयाओ कइकिरिए' इत्यादि सुगमं, नवरमयं भावार्थ:- देवनारकान् प्रति चतुष्क्रिय एव तेषां जीविताद् व्यपरोपणस्यासम्भवाद् 'अनपवर्त्यायुषो नारकदेवा' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org