SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० प्रज्ञापनाउपाङ्गसूत्रम्-२-२२/-/-/५२६ एवंकोहेणंमाणेणंमायाए लोभेणंपेजेणं दोसेणंकलहेणंअभक्खाणेणं पेसुन्नेणंपरपरिवाएणं अरतिरतीते मायामोसेणं मिच्छादसणसल्लेणं, सव्वेसु जीवा नेरइयभेदेणं भाणितव्वा, निरंतरं जाव वेमाणियाणंति, एवं अट्ठारस एते दंडगा १८। वृ. जीवाणंभंते!' इत्यादि सुगम, नवरं संसारसमावण्णगा' इति संसार-चतुर्गतिभ्रमणरूपं सम्यग्-एकीभावेनापन्नाः संसारसमापन्नाः संसारसमापन्ना एव संसारसमापन्नकाः, प्राकृतत्वात् स्वार्थेकप्रत्ययः, तद्विपरीता असंसासमापनकाः, चशब्दौस्वगतानेकभेदसूचकौ, तत्र येअसंसारसमापनकास्तेसिद्धाः, सिद्धाश्च देहमनोवृत्त्यभावतोऽक्रियाः,येतुसंसारसमापन्नकास्तेद्विविधाःशैलेशीप्रतिपन्नका अशैलेशीप्रतिपन्नकाश्च,शैलेशीनामायोग्यवस्था तांप्रतिपत्राः शलेशीप्रतिपत्राः, ततः पूर्ववत् स्वार्थिकः कप्रत्यतः, शैलेशीप्रतिपन्नकाः, तद्वयतिरिक्ताः अशैलेशीप्रतिपन्नकाः, तत्रयेशैलेशीप्रतिपन्नकास्तसूक्ष्मबादरकायवाङ्मनोयोगनिरोधादक्रियाः,येत्वशैलेशीप्रतिपन्नकास्ते सयोगित्वात् सक्रियाः, “से एएणटेण'मित्याधुपसंहारवाक्यं । तदेवं ये सक्रिया ये चाक्रियास्ते उक्ताः, सम्प्रति यथा प्राणातिपातक्रिया न भवति तथा दर्शयति-'अत्थिणंभंते!' इत्यादि, अस्त्येतत्, णमिति वाक्यालङ्कारे, भदन्त! जीवानांप्राणातिपातेन-प्राणातिपाताध्यवसायेन क्रिया सामर्थ्यात् प्राणातिपातक्रिया क्रियते ?, कर्मकर्तर्ययं प्रयोगो, भवतीत्यर्थः, अनतीतनयाभिप्रायात्मकोऽयंप्रश्नःकतमोऽत्र नयोयमध्यवसायपृष्टमिति चेत्, उच्यते, ऋजुसूत्रस्तथाहि-ऋजुसूत्रस्य हिंसापरिणतिकाल एवप्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसायानुरोधित्वात्, न अन्यथा परिणताविति, भगवानपि तं ऋजुसूत्रनयमधिकृत्यप्रत्युत्तरमाह-'हंता! अस्थि हन्तेतिप्रेषणप्रत्यवधारणविषादेषु, अत्र प्रत्यवधारणे, अस्त्येतप्रमाणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति, परिणामियंपमाणंनिच्छयमवलंबमाणाण' मित्याद्यागमवचनस्य स्थितत्वाद्, अमुमेव वनचनमधिकृत्याऽऽवश्यकेऽपीदं सूत्रं प्रावर्तिष्ट–'आया चेव अहिंसा आया हिंसत्ति निच्छओ एस' तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम्, सम्प्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतन्निरूपयति ‘कम्हिणंभंते' इत्यादि, सुगमम्, नवरंमारणाध्यवसायोजीवविषयो भवति नाजीविषयो, योऽपि रज्ज्वादौ सर्पादिबुध्या मारणाध्यवसायः सोऽपि सर्पोऽयमिति बुध्या प्रवर्त्तमानत्वात् जीवविषये एव, न खलु रज्ज्वादौ रज्ज्वादितयापरिच्छिन्ने कश्चित्तद्विषयंमारणाध्यवसायं विदधाति, ततःप्राणातिपातक्रियाषट्सुजीवनिकायेषूक्ताएतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैयरिकादिकंचतुर्विंशतिदण्डकमधिकृत्यचिन्तयति-'अस्थिणंभंते' इत्यादि, नवरमेवंसूत्रपाठः 'अस्थि णं भंते ! नेरइयाणं पाणाइवाएणं किरिया कज्जइ?, हंता अस्थि, कम्हि णं भंते ! पाणाइवाएणं किरिया कज्जइ ?, गोयमा !छसु जीवनिकाएसु', एवं तावद् वाच्यं यावद्वैमानिकविषयं सूत्रं । तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तत्प्रतिपादितं, सम्प्रति एवमेव मृषावादादिविषयाण्यपि सूत्राण्याह 'अस्थिणंभंते! मुसावाएण'मित्यादिसुगम, नवरं किरियाकजई' इति यथायोगंप्राणातिपातादिक्रिया भवतीत्यर्थः, तथा सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः, स च लोकालोकगतसमस्तवस्तुविषयोऽपिघटते, तत उक्तंमृषावादसूत्रम्-'सव्वदव्वेसु' इति, द्रव्यग्रहणमुपलक्षणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy