SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ प्रज्ञापनाउपाङ्गसूत्रम् - २ - २२///५२५ तं०- काइया १ अहिगरणिया २ पादोसिया ३ पारियावणिया ४ पाणाइवायकिरिया, काइया णं भंते! किरिया कतिविहा पं० ?, गो० ! दुविहा पं०, तं० - अनुवरयकाइया य दुप्पउत्तकाइया य, अहिगरणिया णं भंते ! किरिया कइविहा पं० ?, गो० ! दुविहा पं०, तं० - संजोयणाहिकरणिया य निव्वत्तणाधिगरणिया य, पादोसिया णं भंते! किरिया कतिविहा पं० ?, गो० ! तिविहा पं०, तं० - जेणं अप्पणी वा परस्स वा तदुभयस्स वा असुभं मनं संपधारेति, सेत्तं पादोसिया किरिया, पारियावणिया णं भंते! किरिया कतिविहा पं० ?, गो० ! तिवि० तं० - जेणं अप्पणी वा परस्स वा तदुभयस्स वा अस्यसायं वेदणं उदीरेति, सेत्तं पारियावणिया किरिया, पाणातिवायकिरिया णं भंते! कतिविहा पं० ?, गो० ! ति० पं०, तं० - जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ वबरोवेइ, से तं पाणाइवायकिरिया । वृ. 'कइणं भंते!' किरियाओ पं०' इत्यादि, करणं क्रिया, कर्मबन्धनिबन्धनचेष्टा इत्यर्थः, सा पञ्चधा, तद्यथा-'काइया' इत्यादि, चीयते इति कायः - शरीरं, काये भवा कायेन निर्वृत्ता वा कायिकी १, तथा अधिक्रियते - स्थाप्यते नरकादिष्वात्माऽनेनेति अधिकरणं-अनुष्ठानविशेषो बाह्यं वा वस्तु चक्रखङ्गादि तत्र भवा तेन वा निर्वृत्ता आधिकरणिकी, 'पाउसिया' इति प्रद्वेषो - मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणामविशेष इत्यर्थः तत्र भवा तेन वा निर्वृतता स एव वा प्रद्वेषिकी ३, ‘पारियावणिया’इति परितापनं परितापः पीडाकरणमित्यर्थः तस्मिन् भवा तेन वा निर्वृत्ता परितापनमेव वा पारितापनिकी ४, 'पाणाइवायकिरिया' इति प्राणा- इन्द्रियादयस्तेषामतिपातो - विनाशस्तद्विषया प्राणातिपात एव वा क्रिया प्राणातिपातक्रिया, तत्र कायिकी द्विभेदा, तद्यथा - अनुपरतकायिकी दुष्प्रयुक्तकायिकी च, उपरतो - देशतः सर्वतो वा सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनिवृत्त इत्यर्थः तस्य कायिकी अनुपरतकायिकी क्रियेति वर्त्तते, इयं प्रतिप्राणिनि वर्त्तते, इयमविरतस्य वेदितव्या, न देशविरतस्य सर्वविरतस्य वा, तथा दुष्टं प्रयुक्तं प्रयोगः कायादीनां यस्य स दुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तकायिकी, इयं प्रमत्तसंयतस्यापि भवति, प्रमत्ते सति कायदुष्प्रयोगसम्भवात्, आधिकरणिक्यपि द्विभेदा, तद्यथा संयोजनाधिकरणिकी निर्वर्त्तनाधिकरणिकी च, तत्र संयोजनं - पूर्वनिर्वर्त्तितानां हलगरविषकूटयन्त्राद्यङ्गानां मीलनं तदेव संसारहेतुत्वादाधिकरणिकी संयोजनाधिकरणिकी, इयं हलाद्यङ्गानि पूर्वनिर्वर्त्तितानि संयोजयितुर्भवति, तथा निर्वर्तनंअसिशक्तिकुन्ततोमरादीनां मूलतो निष्पादनं तदेवाधिकरणिकी निर्वर्त्तनाधिकरणिकी, पञ्चविधस्य वा शरीरस्य निष्पादनं निर्वर्त्तनाधिकरणिकी, देहस्यापि दुष्प्रयुक्तस्य संसारवृद्धिहेतुत्वात् । प्राद्वेषिकी त्रिभेदा, तद्यथा - 'जेण अप्पणो' इत्यादि, येन प्रकरेण जीवा आत्मनो वा-स्वस्य वा अन्यस्य वा-आत्मव्यतिरिक्तस्य उभयस्य वा-स्वपरलक्षणस्योपरि अशुभं - अकुशलं मनःअन्तःकरणं प्रधारयति - प्रकर्षाणं धारयति करोतीत्यर्थः तेन कारणेन विषयस्य त्रैविध्यात् त्रिविधा प्राद्वेषिकी क्रिया, तथाहि कश्चित् कस्मिन् प्रयोजने स्वयमनुष्ठिते पर्यन्ते विपाकदारुणे संवृते सति अविवेकादात्मन एवोपरि अकुशलं मनः सम्प्रधारयति, एवं कश्चित् परस्य, कश्चित् स्वप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy