________________
पदं - २१, उद्देशक:-, द्वारं
१४७
तेयाकम्मगाणं दोहवि तुल्ला जहन्निया ओगाहणा विसे० वेउव्वियसरीरस्स जहन्निया ओगाहणा असं० आहारगसरीरस्स जहन्निया ओगाहणा असं०, उक्कोसियाए ओगाहणाए सव्वत्थोवा आहारगसरीरस्स उक्कोसिया ओगाहणा ओरालियसरीरस्स उक्कोसिया ओगाहणा संखे० वेउव्वियसरीरस्स उक्कोसिया ओगाहणा संखि० तेयाकम्मगाणं दोवि तुल्ला उक्कोसिया ओगाहणा असं०, जहन्नुक्कोसियाते ओगाहणाते सव्वत्थोवा ओरालियसरीरस्स जहन्निया ओगाहणा तेयाकम्माणं दोहवि तुल्ला जहन्नयि ओगाहणा विसे० वेउव्वियसरीरस्स जहन्निया ओगा० असं० आहारगसरीरस्स जहन्नियाहिंतो ओगाहणहिंतो तस्स चेव उक्कोसिया ओगा० विसे० ओरालियसरीरस्स उक्कोसिया ओगा० संखे० वेउव्विसरीरस्स णं उक्कोसिया ओगाहणा संखि ० तेयाकम्मगाणं दोण्हवि तुल्ला उक्कोसिया ओगाहणा असंखिज्जुणा ।। (पन्नवणाए भगवईए एगवीसइमं पयं समत्तं)
वृ. 'एएसि ण' मित्यादि, सर्वस्तोका औदारिकशरीरस्य जघन्यावगाहना, अङ्गुलासङ्घयेयभागमात्रप्रमाणत्वात, तैजसकार्मणयोर्जघन्यावगाहना द्वयोरपि परस्परं तुल्या, औदारिकजघन्द्यावगाहनातो विशेषाधिका, कथमिति चेत्, उच्यते, जइह मारणान्तिकसमुद्घातेन समवहतस्य पूर्वशरीरात् यद्बहिर्विनिर्गतं तैजशरीरं तस्यायामबाहल्यविस्तारैरवगाहना चिन्त्यते इत्युक्तं प्राक्,
तत्र यस्मिन् प्रदेशे उत्पत्स्यन्ते सोऽपि प्रदेश औदारिकशरीरावगाहनाप्रमितोऽमुलासङ्घयेयभागप्रमाणो व्याप्तो यदप्यपान्तरालमतिस्तोकं तदपि व्याप्तमित्यौदारिकजघन्यावगाहनातोविशेषाधिका, ततोऽपि वैक्रियशरीरस्य जघन्यावगाहना असङ्घयेयगुणा, अङ्गुलासङ्केत्ययभागस्यामयेयभेदभिन्नत्वात्, ततोऽप्याहारकशरीरस्य जघन्यावगाहनाऽसङ्घयेयगुणा, देशोनहस्तप्रमाणत्वात्, उत्कृष्टावगाहनाचिन्तायां सर्वस्तोका आहारकशरीरस्योत्कृष्टाऽवगाहना, हस्तमात्रत्वात्, ततोऽप्यौदारिकशरीरस्य उत्कृष्टावगाहना सङ्घयेयगुणा, सातिरेकयोजनसहस्रप्रमाणत्वात्, ततोऽपि वैक्रियशरीरस्योत्कृष्टावगाहना सङ्घयेयगुणा, सातिरेकयोजनलक्षमानत्वात्,
तैजसकार्मणयोरुत्कृष्टावगाहना द्वयोरपि परस्परं तुल्या वैक्रियशरीरोत्कृष्टावगाहनातोऽसङ्घयेयगुणा, चतुर्दशरज्वात्मकत्वात्, जघन्योत्कृष्टावगाहनचिन्तायां आहारकशरीरस्य 'जहन्नियाहिंतो ओगाहणाहिंतो तस्स चेव उक्कोसिया ओगाहणा विसेसाहिया' इति, देशेन समधिकत्वात्, शेषं सुगमं, अनन्तरमेव भावितत्वात् ॥
पदं - २१ – समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे एकविंशतितमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता ।
पदं - २२ - क्रिया
वृ. तदेवं व्याख्यातमेकविंशतितमं पदं, अधुना द्वाविंशतितममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषरूपं शरीरावगाहनादि चिन्तितं, इह तु नारकादिगतिपरिणामेन परिणातानां जीवानां प्राणातिपातादिरूपाः क्रियाविशेषाश्चिन्त्यन्ते, तत्रेदमादिसूत्रम्
मू. (५२५) कति णं भंते! किरियाओ पन्नत्ताओ ?, गो० ! पंच किरियाओ पन्नत्ताओ,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International