SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-/-/५२१ मत्स्यतयोत्पद्यतेपण्डकवनेपुष्करिणीषुचेति, तिर्यक्पञ्चेन्द्रियस्योत्कर्षतस्तिर्यग्लोकाल्लोकान्तोऽत्रापि भावना द्वीन्द्रियत्कर्तव्या, तिर्यक्पञ्चेन्द्रियस्यैकेन्द्रियेषूत्पादसम्भवात्, । ___ मनुष्यस्योत्कर्षतःसमयक्षेत्रात्, समयप्रधानं क्षेत्रसमयक्षेत्रमयूरव्यंसकादित्वान्मध्यपदलोपी समासः, यस्मिन्अर्द्धतृतीयद्वीपप्रमाणेसूर्यादिक्रियाव्यङ्गयःसमयोनाम कालद्रव्यमस्तितत्समयक्षेत्रं मानुषक्षेत्रमिति भावस्तस्मात, यावदध ऊर्ध्वं वा लोकान्तस्तावप्रमाणा, मनुष्यस्याप्येकेन्द्रियेषूत्पादसम्भवात्, समयक्षेत्रग्रहणंसमयक्षेत्रादन्यत्रमनुष्यजन्मनः संहरणस्य चासम्भवेनातिरिक्ताया अवगाहनाया असम्भवात्। ____ असुरकुमारादिस्तनितकुमारापर्यवसानभवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासङ्ख्येयभागः, कथमिति चेत्, उच्यते, एते ह्येकेन्द्रियेषूत्पद्यन्ते ततो यदा ते स्वाभरणेष्वङ्गदादिषु कुण्डलादिषु वा ये मणयः पद्मरागादयस्तेषु गृद्धा मूर्छितास्तदध्यवसायिनस्तेष्वेवशरीरस्थेष्वाभरणादिषुपृथिवीकायिकत्वेनोत्पद्यन्ते तदाभवतिजघन्यतोऽङ्गुलासझ्येयभागप्रमाणातैजशरीरावगाहना, अन्ये त्वन्यथाऽत्रभावनिकां कुर्वन्ति, साच नातिश्लिष्टेति, नलिखिता न च दूषिता, 'कुमार्गंन हि तित्यक्षुः, पुनस्तमनुधावती तिन्यायानुसरणात्, उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्याअधस्तनश्चरमान्तः तिर्यक्यावत्स्वयम्भूरमणसमुद्रस्यबाह्यो वेदिकान्त ऊर्ध्वं यावत् ईषत्याग्भारापृथिवी तावत् द्रष्टव्या, कथमिति चेत्, उच्यते, यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत् कुतश्चित्प्रयोजनवशाद् गतो भवति, तत्र च गतःसन्कथमपि स्वायुःक्षयान्मृत्वा तिर्यक् स्वयम्भूरमणसमुद्रबाह्यवेदिकान्ते यदिवा ईषत्राग्भाराभिधपृथिवीपर्यन्ते पृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता तता तैजसशरीरावगाहना, सनत्कुमारदेवस्यापिजघन्यतोऽङ्गुलासङ्ख्येयभागप्रमाणातैजसशरीरावगाहना, कथमिति चेत्, उच्यते, इह सनत्कुमारादय एकेन्द्रियेषु विकलेन्द्रियेषुवा नोत्पद्यन्ते, तथा भवस्वाभाव्यात्, किन्तुतिर्यक्पञ्चेन्द्रियेषुमनुष्येषुवा, ततोयदा मन्दरादिपुष्करिण्यादिषुजलावगाहंकुर्वतांस्वभवायुः क्षयात् तत्रैवस्वप्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदा अङ्गुलासङ्खयेयभागप्रमाणा द्रष्टव्या, अथवा पूर्वसम्बन्धिनींमनुष्यस्त्रियं मनुष्येणोपभुक्तामुपलभ्य गाढानुरागादिहागत्य परिष्वजतेपरिष्वज्य चतदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्य कालं कृत्वा तस्या एव गर्भे पुरुषबीजेसमुत्पद्यते तदा लभ्यते, उत्कर्षतोऽधःपातालकलसानां लक्षयोजनप्रमाणावगाहानां द्वितीयविभागयावतिर्यग्यावत् स्वयम्भूरमणसमुद्रपर्यन्त ऊर्ध्वं यावदच्युतकल्पस्तावदवगन्तव्या, कथमिति चेत्, उच्यते, इह सनत्कुमारादिदेवानामन्यदेवनिश्रया अच्युतकल्पं यावद् गमनं भवति, न च तत्र वाप्यादिषु मत्स्यादयःसन्तिततइह तिर्यग्मनुष्येषूत्पत्तव्यं, तत्रयदासनत्कुमारदेवोऽन्यदेवनिश्रयाअच्युतकल्पं गतो भवति तत्र च गतः सन् स्वायुःक्षयात्कालं कृत्वा तिर्यक् स्वयंभूरमणपर्यन्ते यदिवाऽधः पातालकलशानां द्वितीयत्रिभागेवायूदकयोरुत्सरणापसरणभाविनिमत्स्यादितयोत्पद्यतेतदा भवति तस्य तिर्यगधो वा यथोक्तक्रमेण तैजसशरीरावगाहनेति, ___“एवं जाव सहस्सारदेवस्स'त्ति एवं-सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसशरीरावगाहना तावद्वाच्या यावत्सहस्रारदेवेभ्यः, भावनाऽपिसर्वत्रापि समाना, आनत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy