________________
पदं -२, उद्देशक:-, द्वारं
अधोलोकान्तादारभ्य यावदूर्ध्वलोकान्त ऊर्ध्वलोकान्तादारभ्य यावदधोलोकान्तस्तावप्रमाण इति इयं च सूक्ष्मस्य बादरस्य वा एकेन्द्रियस्य वेदितव्या, न शेषस्यासम्भवात्, एकेन्द्रिया हि सूक्ष्मा बादराश्च यथायोगं समस्तेऽपि लोके वर्त्तन्ते न शेषास्ततो यदा सूक्ष्मो बादरो वा एकेन्द्रियोऽधोलोके वर्त्तमान ऊर्ध्वलोकान्ते सूक्ष्मतया बादरतया वोत्पत्तुमिच्छति ऊर्ध्वलोकान्ते वा वर्त्तमानः सूक्ष्मो बादरो वा अधोलोकान्ते सूक्ष्मतया बादरतया वोत्पत्स्यते तदा तस्य मारणान्तिकसमुद्घातेन समवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना भवति, एतेन पृथिव्यप्तेजोवायुवनस्पतिसूत्राण्यपि भावितानि द्रष्टव्यानि, तथाहि - सूक्षमपृथिवीकायिकोऽधोलोके ऊर्ध्वलोके वा वर्त्तमानो यदा सूक्ष्मपृथिवीकायिकादितया बादरवायुकायिकतया वा ऊर्ध्वलोके अधोलोके वा समुत्पत्तुमिच्छति तदा भवति तस्य मारणान्तिकसमुद्घातेन समवहतस्योत्कर्षतो लोकान्तात्त लोकान्तं यावत् तैजसशरीरावगाहना, एवमप्कायिकादिष्वपि भाव्यं,
द्वीन्द्रियसूत्रे आयामेन जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा यदा अपर्याप्तो द्वीन्द्रियोऽहुलासङ्घयेयभागप्रमाणौदारिकशरीरः स्वप्रत्यासन्नप्रदेशे एकेन्द्रियादितयोत्पद्यते तदा अवसेया, अथवा यस्मिन् शरीरे स्थितः सन् मारणान्तिकसमुद्घातं करोति तस्मात् शरीरात् मारणान्तिकसमुद्घातवशात् बहिर्विनिर्गततैजशरीरस्यायामविष्कम्भविस्तारैरवगाहना चिन्त्यते न तत् शरीरसहितस्य, अन्यथा भवनपत्यादेर्यज्जधन्यतोऽङ्गुलसङ्घयेयभागत्वं वक्ष्यते तद्विरुध्येत, भवनपत्यादिशरीराणां सप्तादिहस्तप्रमाणत्वात्, ततो महाकायोऽपि द्वीन्द्रियो यदा स्वप्रत्यासन्नदेशे एकेन्द्रियतयोत्पद्यते तदाप्यङ्गुलासङ्घयेयभागप्रमाणा वेदितव्या, उत्कर्षतस्तिर्यग्लोकाल्लोकान्तः, किमुक्तं भवति ? – तिर्यग्लोकादधोलोकान्तो ऊर्ध्वलोकान्तो वा यावता भवति तावत्प्रामाणा इत्यर्थः, कथमेतावत्प्रमाणेति चेत्, उच्यते, इह द्वीन्द्रिया एकेन्द्रियेष्वप्युत्पद्यन्ते, एकेन्द्रियाश्च सकललोकव्यापिनः, ततो यदा तिर्यग्लोकस्थितो द्वीन्द्रिय ऊर्ध्वलोकान्ते अधोलोकान्ते वा एकेन्द्रियतया समुत्पद्यते तदा भवति तस्य मारणान्तिकसमुद्घातसमवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना, तिर्यग्लोकग्रहणं च प्रायस्तेषां तिर्यग्लोकः स्वस्थानमिति कृतमन्यथा अधोलोकैकदेशेऽप्यधोलौकिकग्रामादौ ऊर्ध्वलोकैकदेशेऽपि पण्डकवनादौ द्वीन्द्रियः सम्भवतीति तदपेक्षयाऽतिरिक्ताऽपि तैजसशरीरावगाहना द्रष्टव्या, एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये ।
नैरयिकसूत्रे आयामेन जघन्यतो यत्सातिरेकं योजनसहनमुक्तं तदेवं परिभावनीयम्-इह वलयामुखादयश्चात्वारः पातालकलशाः लक्षयोजनावगाहा योजनसहस्रबाहल्यठिक्करिकाः, तेषामधस्त्रिभागो वायुपरिपूर्ण उपरितनस्त्रिभाग उदकपरिपूर्णो मध्यप्रभागो वायूदकयोरुत्सरणापसरणधर्मा, तत्र यदा कश्चित्सीमन्तकादिषु नरकेन्द्रकेषु वर्त्तमानो नैरयिकः पातालकलशप्रत्यासन्नवर्त्ती च स्वायुः क्षयागदुद्वृ त्य पातालकलशकुड्यं योजनसहस्रबाहल्यं भित्त्वा पातालकलशमध्ये द्वीतीये तृतीये वा त्रिभागे मत्स्यतयोत्पद्यते तदा भवति सातिरेकयोजनसहस्रमाना नैरयिकस्य मारणान्तिकसमुद्घातसमवहतस्य जघन्या तैजशरीरावगाहना, उत्कर्षतो यावदधः सप्तमपृथिवी तिर्यक् यावत्स्वयम्भूरमणसमुद्रपर्यन्त ऊर्ध्व यावत्पण्डकवने पुष्करिण्यस्तावद् द्रष्टव्या, किमुक्तं भवति अधः सप्तमपृथिव्या आरभ्य तिर्यग् यावत् स्वयम्भूरमणपर्यन्त ऊर्ध्वं यावत् पण्डकवनपुष्करिण्यस्तावव्यमाणा, एतावती च तदा लभ्यते यदाऽधः सप्तमपृथिवीनारकः स्वयम्भूरमणसमुद्रपर्यन्ते
Jain Education International
For Private & Personal Use Only
१४१
www.jainelibrary.org