________________
१४३
पदं-२१, उद्देशकः, द्वारंदेवस्यापिजघन्यतोऽङ्गुलासङ्ख्येयबागप्रमाणातैजसशरीरावगाहना, नन्वानतादयोदेवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्चमनुष्यक्षेत्रएवेतिकथमङ्गुलासङ्घयेयभागप्रमाणा?, उच्यते, इहपूर्वसम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतस्वभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगतेरचिन्त्यत्वात् कामवृत्तेमिलिनत्वाच्च, उक्तंच॥१॥ “सत्त्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः । ..
मलिनत्वं च कामानां, वृत्तिः पर्यन्तदारुणा ॥” इति, गाढानुरागादिहागत्य नकुलोपगृहं तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्यातीव मूर्छितः स्वायुःक्षयात् कालंकृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादश मुहूर्तान् यावदवतिष्ठति, उक्तं च
"मणुस्सबीए णं भंते ! कालतो केवच्चिरं होइ?, गो० ! जह० अंतो० उक्कोसेणं बरस मुहुत्ता" इति, ततो द्वादशमुहूर्ताभ्यन्तर उपभुक्तांपरिष्वज्यमृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामास्तिर्यग् यावन्मनुष्यक्षेत्रं ऊर्चयावदच्युतः कल्पस्तावदवसेया, कथमिति चेत्, उच्यते, इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पंगतोभवति, सचतत्र गतःसन्कालंकृत्वाऽधोलौकिकग्रामेषुयदिवामनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते, एवं प्राणतारणाच्युतकल्पदेवानामपि भावनीयं, तथा चाह
___‘एवं जाव आरणदेवस्स, अच्चुयदेवस्स एवं चेव, नवरं उटुंजाव सयाई विमाणाई' इति, अच्युतदेवस्यापि जघन्यतः उत्कर्षतश्च तैजसशरीरावगाहना एवमेव-एवंप्रमाणैव, परंसूत्रपाठे 'उडं जाव सयाई विमाणाई' इति वक्तव्यं, नतु 'उहुंजाव अच्चुओ कप्पो' थि, अच्युतदेवो हि यदा चिन्त्यते तदा कथमूक्यावदच्युतः कल्प इति घटते?, तस्य तत्र विद्यमानत्वात्, केवलमच्युतदेवोऽपि कदाचिदूर्ध्वं स्वविमानपर्यन्तं यावद् गच्छति तत्र च गतः सन् कालमपि करोति तत उक्तम्- ‘उड्डंजावसयाइं विमाणाई' इति, ग्रैवेयकानुत्तरसुरा भगवद्वन्दनादिकमपितत्रस्था एव कुर्वन्ति तत इहागमनासम्भवात् अङ्गुलासङ्ख्येयभागप्रमाणता न लभ्यते, किन्तु यदा वैताट्यगतासु विद्याधरश्रेणिषूत्पद्यन्ते तदा स्वस्थानादारभ्याधोयावद्विद्याधरश्रेणयस्तावप्रमाणा जघन्या तैजसशरीरावगाहना, अतोऽपिमध्येजघन्यतरायाअसम्भवात्, उत्कृष्टा यावदधोलौकिका ग्रामा-स्ततोऽप्यध उत्पादासम्भवात्, तिर्यग्यावन्मनुष्यक्षेत्रपर्यन्तस्ततः परं तिर्यगप्युत्पादाभावात्, यद्यपि हि विद्याधरा विद्याधर्यश्च नन्दीश्वरं यावद् गच्छन्ति अर्वाक् सम्भोगमपि कुर्वन्ति तथापि मनुष्यक्षेत्रात् परतो गर्भे मनुष्येषु नोत्पद्यन्ते ततस्तिर्यग्यावत् मनुष्यक्षेत्रमित्युक्तं।
तदेवमुक्तानि तैजसशरीरस्य विधिसंस्थानावगाहनामानानि, सम्प्रति कार्मणस्य वक्तव्यानि, कार्मणं च तैजससहाविनाभावि तैजसवञ्च जीवप्रदेशानुरोधि संस्थानं ततो यथैव तैजसशरीरस्योक्तानि तथैव कार्मणस्यापि वक्तव्यानि, तथा चाह-‘एवं जहेव तेयगसरीरस्स भेदो संठाणमोगाहणा य भणिता तहेव निरवसेसं भाणितव्वं जाव अनुत्तरोववाइय'त्ति॥
उक्तानिपञ्चानामपि शरीराणांविधिसंस्थानवगाहनामानानि, सम्प्रतिपुद्गलचयनमाह
मू. (५२२) ओरालियसरीरस्सणंभंते! कतिदिसिंपोग्गला चिजंति?, गो०! निव्वाघएणं छदिसिं वाघाये पडुच्च सिय तिदिसिं सिय छउद्दिसिं सिय पंचदिसिं, वेउव्वियसरीरस्सणं भंते !
Jain Education International
For Private & Personal Use Only
www.jainélibrary.org