________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २१/-/-/५१९ जिगमिषुस्तर्हि प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति प्रतिनिवर्त्तमानस्तु प्रथमोनोत्पातेन नन्दनवनमागच्छति द्वितीयेन स्वस्थानमिति,
-
119 11
जङ्घाचारिणो हि चारित्रातिशयप्रभावतो भवन्ति, ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाञ्च्चारित्रातिशयनिबन्धना लब्धिः परिहीयते, ततः प्रतिनिवर्त्तमानो द्वाभ्यामुत्पाताभ्यां स्वभुवमायाति, विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्त्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायातीति, तथा स एवोर्ध्वं गच्छन् प्रथमोत्पातेन नन्दनवनं गच्छति द्वितीयेनोत्पातेन पण्डकवनं, प्रतिनिवर्त्तमानस्त्वेकैनैवोत्पातेन स्वस्थानमायातीति, विद्याचारणो विद्यावशतो भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, अतः प्रतिनिवर्त्तमानस्य शक्यत्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानगमनमिति उक्तं च“अइसयचरणसमत्था जंघाविज्जाहि चारणा मुणओ । जंघाहि जाइ पढमोनीसं काउं रविकरेवि ॥ गुपाए गओ रुयगवरंमि उ तओ पडिनियत्तो । बिइएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ पढमेणं पंडगवन बिइउप्पाएण नंदनं एइ । तइउप्पाएण तओ इह जंघाचारणो एइ ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहई || पढमेणं नंदनवने बिअप्पाएण पंडगवनंमि । एइ इहं तइएणं जो विज्जाचारणो होइ ।।"
॥ ५ ॥
तथा सर्वं - विड्मूत्रादिकमौषधं यस्य स सर्वौषधः, किमुक्तं भवति ? - यस्य मूत्रं विट् श्लेष्मा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वौषधः, आदिशब्दादामर्षैषध्यादिलब्धिपरिग्रहः, एताश्च ऋद्धीरप्रमत्तः सन् प्राप्य पश्चात् प्रमत्तो भवति, तेनैवेह प्रयोजनं तत उक्तम्- 'इडिपत्तपमत्तसंजये 'त्यादि, आह- मनुष्यस्याहारकशरीरमित्युक्ते सामथ्यादमनुष्यस्य नाहारकशरीरमित्यवसीयते ततः कस्मादुच्यते- 'नो अमणुस्साहारगसरीरे' इत्यादि ? निरर्थकत्वात्, उच्यते,
इह त्रिविधा विनेयाः, तद्यथा-उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चितज्ञाश्च तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामथ्यावगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीशते नान्यथा, ततस्तेषामनुग्रहाय सामर्थ्यलब्धस्यापि विपक्षनिषेधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वात् अविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न कश्चिद्दोषः,
'जहन्नेणं देणारयणी' इति आहारकशरीरस्य जघन्यतोऽवगाहना देशोना-किञ्चिदूना रत्निः - हस्तः तथाविधप्रयत्नभावतः प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् । तदेवमुक्तान्याहारकशरीरस्य विधिसंस्थानावगाहनामानानि, सम्प्रति तैजसस्य तान्यभिधित्सुराह
मू. (५२०) तेयगसरीरे णं भंते! कतिविधे पं० ?, गो० ! पंचविहे पं० तं - - एगिंदियतेयगसरीरे जाव पंचिंदियतेयगसरीरे, एगिंदियतेयगसरीरे णं भंते! कइविधे पं० ?, गो० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
१३८
॥२॥
॥ ३ ॥
॥४॥