SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पदं-२१, उद्देशकः-, द्वारं. १३७ धन्यतमप्रमादयोगतःसंयमयोगेषु सीदन्ति स्म प्रमत्ताः,पूर्ववत्कर्तरि क्तप्रत्ययः, ते च प्रायो गच्छवासिनस्तेषांक्वचिदनुपयोगसम्भवातू, तद्विपरीताअप्रमत्ताः, तेचप्रायोजिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नास्तेषां सततोपयोगसम्भवात्, इह जिनकल्पिकादयो लब्धि नोपजीवन्ति, तेषां तथाकल्पत्वात्, येऽपिच गच्छवासिन आहारकशरीरं कुर्वन्ति तेऽपि तदानीं लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादवन्तो, मोचनेऽपिच प्रमादवन्त आत्मप्रदेशानामौदारिकशरीरे सर्वात्मनोपसंहरणेन व्याकुलीभावात्, आहारकशरीरे चान्तर्मुहूर्तावस्थानं, ततोयद्यपितन्मध्यभागेकियत्कालंमनाविशुद्धिभावतःकार्मग्रन्थिकैरप्रमत्ततोपवण्यते तथापि स लब्ध्युपजीवनेन प्रमत्त एवेत्यप्रमत्तस्य ‘नो अपमत्तसंजए' इत्यादिना प्रतिषेधःकृतः, 'इड्डिपत्त'त्तिऋद्धी:-आमर्पोषध्यादि लक्षणाः प्राप्त ऋद्धिप्राप्तस्तद्विपरीतोऽनृद्धिप्राप्तः, ऋद्धीश्च प्राप्नोति प्रथमतो विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमान; श्रुतसामर्थ्यतस्तीव्रतीव्रतरशुभभावनामधिरोहन् अप्रमत्तःसन्, उक्तंच॥१॥ “अवगाहते च स श्रुतजलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धीर्वा ॥ ॥२॥ चारणवैक्रियस॰षधिताद्या वाऽपिलब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि॥" अत्र 'स' इत्यप्रमत्तसंयतः, मानसपर्यायमिति-मानसाः-मनसः सम्बन्धिः पर्याया-विषया यस्य तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः, कोष्ठादिबुद्धीर्वा इत्यत्रादिशब्दात् पदानुसारिबीजपरिग्रहः, तिम्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा कोष्ठबुद्धिः १ पदानुसारिबुद्धिः २ बीजबुद्धि ३ श्व, तत्र कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौतदवस्थानौच सूत्रार्थीधारयतिन किमपितयोः कालान्तरेगलतिसा कोष्ठबुद्धिः १, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी २,या पुनरेकमर्थपदंतथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितंप्रभूतमर्थमवगाहतेसा बीजबुद्धिः ३, साच सर्वोत्तमप्रकर्षप्राप्ता भगवतांगणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषध्यश्च तद्भावश्चाचारणवैक्रियसौषधिता, तत्र चरणं-गमनंतद्विद्यतेयेषांतेचारणाः 'ज्योत्स्नादिभ्योऽणि ति मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टंगमनमभिगृह्यते, अतएवचातिशायनेमत्वर्थीयो, यथारूपवतीकन्या इत्यत्र, ततोऽयमर्थःअतिशायिचरणसमर्थाश्चारणाः, आह च भाष्यकृत् स्वकृतमाष्टटीकायां "अतिशयचरणाच्चारणाः,अतिशयगमनादित्यर्थः" तेचतेद्विविधा-जवाचारणाः विद्याचारणाश्च, तत्र ये चारित्रतपोविशेषप्रभावतःसमुद्भूतगमनविषयलब्धिविशेषास्तेजवाचारणाः, येपुनर्विद्यावशतःसमुत्पन्नगमनलब्ध्यतिशयास्तेविद्याचारणाः,जङ्घाचारणाश्चरुचकवरद्वीपंयावत् गन्तुंसमर्थाःविद्याचारणा नन्दीश्वरं, तत्र जङ्घाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकतानपि निश्रीकृत्य गच्छन्ति, विद्याचारणास्तेववमेव, जवाचारणश्च रुचकवरद्वीपंगच्छन् एकैनैवोत्पातेन गच्छति,प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy