________________
१३४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-/-/५१८
'उत्तरवेउव्विया जाव अच्चुओ कप्पो' त्ति उत्तरवैक्रिया तावद् वक्तव्यायावदच्युतः कल्पः,परत उत्तरवैक्रियासम्भवात्, एतच्च प्रागेवोक्तं, सर्वत्रजघन्यतोऽङ्गुलसङ्खयेयभागमानाउत्कर्षतोयोजनलक्षं, भवधारणीया तु विचित्रा ततस्तां पृथगाह-'नवर मित्यादि, नवरमयं भवधारणीयां प्रति विशेषः
सनत्कुमारे कल्पे जघन्यतोऽङ्गुलासङ्घयेयभाग उत्कर्षतःषड्त्नयः, ‘एवं माहिदेवि' इति एवं-उक्तेन प्रकारेणजघन्या उत्कृष्टा च भवधारणीया माहेन्द्रकल्पेऽपिवक्तव्या, एतच्च सप्तसागरोपमस्थितिकान्देवानधिकृत्योक्तमवसेयं, द्व्यादिसागरोपमस्थितिष्वेवं-येषांसनत्कुमारमाहेन्द्रकल्पयोर्दै सागरोपमे स्थितिस्तेषामुत्कर्षतो भवधारणीया परिपूर्णसप्तहस्तप्रमाणा, येषां त्रीणि सागरोपमाणि तेषां षड् हस्ताः चत्वारश्च हस्तस्यैकादशभागाः, येषां चत्वारि सागरोपमाणि तेषां षड् हस्तास्त्रयो हस्तस्यैकादशभागाः, येषां पञ्च सागरोपमाणि तेषां षड्हस्ताः द्वौ चहस्तस्यैकादशभागौ, येषां षट्सागरोपमाणितेषांषड् हस्ताः एकश्च हस्तस्यैकादशभागः, येषांतुपरिपूर्णानि सप्त सागरोपमाणि स्थितिस्तेषां परिपूर्णा षड् हस्ता भवधारणीया, उक्तंच॥१॥
“अयरतिगं ठिइ जेसिं सणंकुमारे तहेव माहिंदे ।
रयणीछक्कं तेसिं भागचउक्काहियं देहो॥ ॥२॥ तत्तो अयरे अयरे भागो एक्केकओ पडइ जाव।
सागरसत्तठिईणं रयणीछक्कं तनुपमाणं॥" इह जघन्या भवधारणीया सर्वत्राप्यङ्गुलासङ्खयेयभागप्रमाणा, सा च प्रतीतेति तामवधीर्योत्कृष्टां प्रतिपादयति-'बंभलोगलंतगेसुपंचरयणीओ इति, इह यद्यपिब्रह्मलोकस्योपरि लान्तको नसमश्रेण्या तथापीह शरीरप्रमाणचिन्तायामिदं द्विकं विवक्ष्यते, द्विकपर्यन्त एव हस्तस्य त्रुटिततया लभ्यमानत्वात्, एमुत्तरत्रापिद्विकचतुष्कादिपरिग्रहे कारणं वाच्यं, तत्र ब्रह्मलोकलान्तकयोरुत्कर्षतया भवधारणीया पञ्च रत्नयः, एतच्च लान्तकेचतुर्दशसागरोपमस्थितिकान् देवानधिकृत्य प्रतिपादितमवसेयं, शेषसागरोपमस्थितिष्वेवं- येषां ब्रह्मलोके सप्त सागरोपमाणि स्थितिस्तेषां षड् रत्नयः परिपूर्णा भवधरणीया, येषामष्टौ सागरोपमाणि तेषां पञ्च हस्ताः षड् हस्तस्यैकादशभागाः, येषां नव सागरोपमाणि तेषां पञ्च हस्ताः पञ्च हस्तस्यैकादशभागाः, येषां दश सागरोपमाणि तेषां पञ्च हस्ताश्चत्वारश्चैकादशभागाः हस्तस्य, ।
लान्तकेऽपियेषां दश सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीयाउत्कर्षतो, येषामेकादश सागरोपमाणि लान्तके स्थितिस्तेषां पञ्चहस्तास्त्रयो हस्तस्यैकादशभागाः, येषां द्वादश सागरोपमाणि तेषां पञ्च हस्ता द्वौ च हस्तैकादशभागौ, येषां त्रयोदश सागरोपमाणि तेषां पञ्च हस्ता एको हस्तस्यैकादशभागो, येषां चतुर्दश सागरोपमाणि स्थितिस्तेषां परिपूर्णा पञ्चहस्ता भवधारणीया,। 'महासुक्कसहस्सारेसुचत्तारिरयणीओ महाशुक्रसहस्त्ररयोश्चलस्रोरलय उत्कर्षतो भवधारणीया, एतच्च सहस्रारगतान् अष्टादशसागरोपमस्थितिकान्देवानधिकृत्योक्तं वेदितव्यं, शेषसागरोपमस्थितिष्वेवंयेषां महाशुक्रे कल्पे चतुर्दश सागरोपमाणि स्थितिस्तेषामुत्कतर्षतो भवधारणीया परिपूर्णाः पञ्च हस्ताः, येषां पञ्चदश सागरोपमाणि तेषां चत्वारो हस्तास्त्रयश्च हस्तस्यैका-दशभागाः, येषांषोडशसागरोपमाणितेषां चत्वारो हस्ता द्वौ च हस्तस्यैकादशभागौ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org