SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पदं-२१, उद्देशकः-, द्वारं १३५ येषां सप्तदश सागरोपमाणि तेषां चत्वारो हस्ता एको हस्तस्यैकादशभागः, ___ सहनारेऽपि येषां सप्तदश सागरोपमाणि तेषामेतावती भवधारणीया, येषां पुनःसहस्रारे परिपूर्णान्यष्टादश सागरोपमाणि स्थितिस्तेषां परिपूर्णाश्चत्वारो हस्ताः भवधारणीया, 'आणयपाणयआरणचुएसु तिनिरयणीओ' इति आनतप्राणतारणाच्युतेषु तिम्रो रत्नय, उत्कृष्टा भवधारणीया, एतच्चाच्युते कल्पेद्वाविंशतिसागपोपमस्थितिकान्देवानधिकृत्योक्तंद्रष्टव्यं, शेषसागपोपमस्थितिष्वेवं-येषामानतेऽपि कल्पेपरिपूर्णानि किञ्चित्समधिकानिचाष्टादशसागरोपमाणि स्थितिः तेषांपरिपूर्णाश्चत्वारोहस्ता उत्कृष्टा भवधारणीया, येषांपुनरेकोविंशतिः सागरोपमाणि तेषांत्रयो हस्तास्त्रयश्च हस्तस्यैकादशभागाः",प्राणतेऽपिकल्पे येषामेकोनविंशतिःसागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषांपुनः प्राणते कल्पे विंशतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता द्वौ च हस्तस्यैकादशभागौ, येषामारणेऽपिकल्पेविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनरारणेऽपि कल्पे एकविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता एकस्य हस्तस्यैकादशभागोभवधारणीया, अच्युतेऽपिकल्पेयेषामेकविंशतिःसागरोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनरच्युते कल्पे द्वाविंशतिः सागरोपमाणि स्थितिस्तेषामुत्कर्षतो भवधारणीया परिपूर्णास्त्रयो हस्ताः, गेवेज्जकप्पातीते'त्यादि भावितं, नवरं 'उक्कोसेणं दो रयणीओ'त्ति एतन्नवमग्रैवेयके एकत्रिंशत्सागरोपमस्थितिकान्देवान्प्रति द्रष्टव्यं, शेषसागरोपमस्थितिष्वेवं-प्रथमे ग्रैवेयके येषां द्वाविंशतिः सागरोपमाणि स्थितिस्तेषां त्रयो हस्ता भवधारणीया, येषां पुनस्तत्रैव त्रयोविंशतिःसागरोपमाणि स्थितिस्तेषां द्वौ हस्तावष्टौ हस्तस्यैकादशभागाः द्वितीयेऽपि ग्रैवेयके येषां त्रयोविंशतिःसागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ सप्तच हस्तस्यैकादशभागा भवधारणीया, तृतीयोऽपिग्रैवेयके येषां चतुर्विंशतिः सागरोपमाणि स्थितिस्तेषामेतावत्येव भवधारणीया, येषां पुनः पञ्चविंशतिः सागरोपमाणितत्रस्थितिस्तेषां द्वौहस्तौषट् हस्तस्यैकादशभागाभवधारणीया, चतुर्थेऽपिग्रैवेयके येषां पञ्चविंशतिः सागरोपमाणि स्थितिस्तेषामेतावती भवधारणीया, येषां पुनस्तत्र षड्विंशतिः सागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ पञ्च हस्तस्यैकादशभागाः, -पञ्चमेऽपि ग्रैवेयके येषां षड्विंशतिः सागरोपमाणि तेषामेतावती भवधारणीया, येषां तु तत्र सप्तविंशति; सागपोपमाणि तेषां द्वौ हस्तौ चत्वारो हस्तस्यैकादशभागा भवधारणीया, षष्ठेऽपिग्रैवेयकेयेषांसप्तविंशतिःसागरोपमाणितेषामेतावत्येवभवधारणीया, येषांपुनस्तत्राष्टाविंशतिःसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ त्रयो हस्तस्यैकादशभागा भवधारणीया, सप्तमेऽपि प्रैवेयकेयेषामष्टाविंशतिः सागरोपमाणि (स्थितिः) तेषामेतावती, येषांपुनस्तत्रएकोनत्रिंशत्सागरोपमाणि तेषांभवधारणीया द्वौ हस्तौ द्वौचहस्तस्यैकादशभागौ, अष्टमेऽपिग्रैवेयके येषां स्थितिरेकोनत्रिंशत्सागपोपमाणि तेषामेतावप्रमाणा, येषां पुनस्तत्र त्रिंशत्सागरोपमाणि स्थितिस्तेषां द्वौहस्ती एकश्चहस्तस्यैकादशोभागोभवधारणीया, नवमे ग्रैवेयके येषां स्थितिस्त्रिंशत्सागरोपमाणि तेषां भवधारणीया एतावप्रमाणा, येषां पुनरेकत्रिंशत्सागरोपमाणि तत्र स्थितिस्तेषां परिपूर्णी द्वौ हस्तौ भवधारणीया, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy