________________
पदं-२१, उद्देशकः, द्वारं
१३३
-
॥२॥ जो सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो ।
बासट्ठी धनयाणं दोन्नि रयणी य बोद्धव्वा॥" अस्यापि गाथाद्वयस्याक्षरगमनिकाप्राग्वत्भावनीया, उत्तरवैक्रियोत्कर्षपरिमाणंपञ्चविंशं धनुःशतं, तच्च सप्तमे प्रस्तटे, शेषेषु तु प्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमिति ४।
पञ्चम्यां धूमप्रभायां पृथिव्यां भवधारणीयोत्कर्षतः पञ्चविंशं धनुःशतं, तब पञ्चमं प्रस्तटमधिकृत्योक्तमवसेयं, शेषेषु प्रस्तटेष्विदं-प्रथमप्रस्तटे द्वाषष्टिर्धनूंषि द्वौ हस्तौ, द्वितीयेऽष्टसप्ततिधनूंषि एका वितस्तिः, तृतीये त्रिनवतिर्धनूंषि त्रयो हस्ताश्चतुर्थेनवोत्तरं धनुःशतं एको हस्तः एकाचवितस्तिः, पञ्चमे सूत्रोक्तं परिमाणं, अत्रापि चायंतात्पर्यार्थः-यप्रथमे प्रस्तटे परिमाणमुक्तं तदुपरि प्रस्तटे २ क्रमेण पञ्चदश धनूंषि सार्द्धहस्तद्वयाधिकानि प्रक्षेप्तव्यानि, तथा च सति यथोक्तं पञ्चमे प्रस्तटे परिणामं भवति, उक्तंच॥१॥ “सो चेव य पंचमीए पढमे पयंरमि होइ उस्सोहो ।
पनरस धणूणि दो हत्थ सड़ पयरेसु वुड्डी य॥ तह पंचमए पयरे उस्सेहो धनुस्सयं तु पणवीसं ।।"
अस्याः सार्द्धगाथायाअक्षरगमनिका प्राग्वत्वक्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणंअर्धतृतीयानिधनुःशतानि, एतानि च पञ्चमेप्रस्तटेवेदितव्यानि, शेषेषुप्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमिति । षष्ट्यां तमःप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया अर्द्धतृतीयानि धनुःशतानि, तानि चतृतीयेप्रस्तटेप्रत्येतव्यानि, प्रथमेतुप्रस्तटे पञ्चविंशंधनुःशतं, द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतंतृतीये तु सूत्रोक्तमेव परिमाणं, अत्राप्ययं तात्पर्यार्थः-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्तव्यानि, तथा च सति तृतीये प्रस्तटे यथोक्तं परिमाणं भवति, उक्तं च॥१॥ “सोचेव य छट्ठीए पढमे पयरंमि होइ उस्सेहो ।
बावट्टि धणुयं सड्डा पयरे पयरे य वुडीओ।। छट्ठीए तइयपयरे दोसय पन्नासया होति ॥"
अस्याप्युत्तरार्द्धपूर्विकाया गाथायाअक्षरगमनिकाप्राग्वत् कर्तव्या, उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चधनुःशतानि, तानि च तृतीयप्रस्तटे वेदितव्यानि, आद्ययोस्तु द्वयोः प्रस्तटयोः स्वस्वभवधारणीयापेक्षया द्विगुणं द्विगुणमवबोद्धव्यं ६। ___अथ सप्तम्यांतुपृथिव्यांभवधारणीया उत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया धनुःसहनं, सर्वत्र भवधारणीया जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्तरवैक्रिया सङ्खयेयभागप्रमाणेति । तिर्यक्पञ्चेन्द्रियस्य वैक्रियशरीरावगाहना उत्कर्षतो योजनशतपृथकत्वं, तत ऊर्ध्व करणशक्तेरभावात्, मनुष्याणां सातिरेकं योजनशतसहनं, विष्णुकुमारप्रभृतीनां तथाश्रवणात्, जघन्या तूभयेषामप्यङ्गुलसङ्खयेयभागप्रमाणा, न त्वसङ्ख्येयभागमाना, तथारूपप्रयत्लासम्भवात् ।
असुरकुमारादीनांस्तनितकुमारपर्यवसानानां व्यन्तराणांज्योतिष्काणां सौधर्मेशानदेवानां प्रत्येकंजघन्या भवधारणीयावैक्रियशरीरावगाहनाअङ्गुलासङ्ख्येयभागप्रमाणा, साचोत्पत्तिसमये द्रष्टव्या, उत्कृष्टा सप्तरत्नयः, उत्तरवैक्रियाजघन्याअङ्गुलसङ्खयेयभागमात्रा, उत्कृष्टायोजनशतसहनं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org