SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३२ प्रज्ञापनाउपाङ्गसूत्रम् -२-२१/-/-/५१८ भणितः - सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि इति, स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति ज्ञातव्यः, ततः प्रतरे प्रतरे वृद्धिरवसेया त्रयो हस्तास्त्रीणि चाङ्गुलानि, तथा च सत्येकादशे प्रस्तटे उत्कर्षतो भवधारणीयशरीरपरिमाणमायाति पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि इति, उत्तरवैक्रियोत्कर्षपरिमाणमाह-एकत्रिंशद्धनूंषि एके हस्तः, इदं च एकादशे प्रस्तटे वेदितव्यं, शेषेषु तु प्रस्तटेषु स्वस्वभवधारणीयापेक्षया द्विगुणमवसेयं २ । तथा तृतीयस्यां वालुकाप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया एकत्रिंशद्धनूंषि एको हस्तः, एतच्च नवमं प्रस्तटमधिकृत्योक्तमवसेयं, शेषेषु प्रस्तटेष्वेवं-तत्र प्रथमप्रस्तटे भवधारणीया पञ्चदश धनूंषि द्वौ हस्तौ द्वादशाङ्गुलानि, द्वितीये प्रस्तटे सप्तदश धनूंषि द्वौ हस्तौ सार्द्धानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिर्धनूंषि द्वौ हस्तौ त्रीण्यङ्गुलानि, चतुर्थे एकविंशतिः धनूंषि एको हस्तः सार्द्धानि द्वाविंशतिरङ्गुलानि, पञ्चमे त्रयोविंशतिर्धनूंषि एको हस्तोऽष्टादश चाङ्गुलानि, षष्ठे पञ्चविंशतिर्धनूंषि एको हस्तः सार्द्धानि त्रयोदशाङ्गुलानि, सप्तमे सप्तविंशतिर्धनूंषि एको हस्तो नव चाङ्गुलानि, अष्टमे एकोनत्रिंशद्धनूंषिएको हस्तः सार्द्धानि चत्वार्यङ्गुलानि, नवमे यथोक्तरूपं परिमाणं भवति, अत्रापि चायं भावार्थ:-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे सप्त हस्ताः सार्द्धानि च एकोनविंशतिरङ्गुलानि क्रमेण प्रक्षेप्तव्यानि ततो यथोक्तं प्रस्तटेषु परिमाणं भवति, उक्तं च“सो चेव य तइयाए पढमे पयंरमि होइ उस्सेहो । सत्तरयणीउ अंगुल उणवीसं सड्ढवुड्डी य ॥ पयरे पयरे य तहा नवमे पयरंमी होइ उस्सेहो । धणुयाणि गतीसं एक्का रयणी य नायव्वा ॥" 119 11 ॥२॥ अस्यापि गाथाद्वयस्येयमक्षरगमनिका - य एव द्वितीयस्याः शर्करप्रभाया एकादशे प्रस्तटे भवधारणीयाया उत्कर्षत उत्सेध उक्तः - पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, स एव तृतीयस्याः वालुकाप्रभायाः पृथिव्याः प्रथमे प्रस्तटे उत्सेधो भवति, ततः प्रतरे २ वृद्धिरसवसेया सप्त हस्ताः सार्द्धानि चैकोनविंशतिरङ्गुलानि, तथा च सति नवमे प्रस्तटे यथोक्तं भवधारणीयावगाहनामानं भवति - एकत्रिंशद्धनूंषि एको हस्त इति, उत्तरवैक्रियोत्कृष्टपरिमाणमाह- द्वाषष्टिर्धनूंषि द्वौ हस्ती, एतच्च नवमप्रस्तटापेक्षमवसेयं, शेषेषु तु प्रस्तटेषु निजनिजभवधारणीयप्रमाणापेक्षया द्विगुणद्विगुणमिति ३ । चतुर्थ्यां पङ्कप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया द्वाषष्टिर्धनूंषि द्वौ हस्तौ इदं च सप्तमे प्रस्तटे प्रत्येयं शेषेषु प्रस्तटेष्वेवं पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, द्वितीये षट्त्रिंशद्धनूंषि एको हस्तो विंशतिरङ्गुलानि, तृतीये एकचत्वारिंशद्धनूंषि द्वौ हस्तौ षोडश अङ्गुलानि, चतुर्थे षट्चत्वारिंशद्धनूंषि त्रयो हस्ता द्वादशाङ्गुलानि पञ्चमे द्विपञ्चाशद्धनूंषि अष्टावङ्गुलानि, षष्ठे सप्तपञ्चाशद्धनूंषि को हस्तः चत्वार्यङ्गुलानि, सप्तमे यथोक्तरूपं परिमाणं, अत्रापि चैष भावार्थ:-प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे क्रमेण पञ्च धनूंषि विंशतिरडुलानीत्येवंरूपा वृद्धिरवगन्तव्या, ततः प्रथमे प्रस्तटे सूत्रोक्तं परिमाणं भवति, उक्तं च“सो चेव चउत्थीए पढमे पयरमिं होइ उस्सेहो । पंच धनु वीस अंगुल पयरे पयरे य वुड्डी य ॥ 119 11 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy