________________
पदं-२१, उद्देशकः-, द्वार
१३१ प्रथमोत्पत्तिकाले वेदितव्या, उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि पर्याप्तावस्थायां, इदं चोत्कर्षतः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं, शेषेषु त्वक्तिनेषु प्रस्तटेषु स्तोकं स्तोकतरं, तच्चैवम्-रत्नप्रभायाः प्रथमप्रस्तटे त्रयो हस्ता उत्कर्षतः शरीरप्रमाणं, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्धानि चाष्टावङ्गुलानि, तृतीये प्रस्तटे धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्टे त्रीणि धनूषिं द्वौ हस्तौ सार्द्धान्यष्टादशाङ्गुलानि सप्तमे चत्वारि धनूंषि एको हस्तःत्रीणि चाङ्गुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ताः सार्धान्येकादशाङ्गुलानि, नवमे पञ्चधनूंषि एको हस्तो विंशतिरङ्गुलानि, दशमे षट् धनूंषि सार्द्धानि चत्वारि अङ्गुलानि, एकादशे षट्धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्धान्येकविंशतिरङ्गुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्परिपूर्णान्यकुलानि, अत्र चायं तात्पर्यार्थः
प्रथमप्रस्तटे यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्द्धानि षट्पञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, ततो यथोक्तं प्रस्तटेषुशरीरावगाहनापरिमाणं भवति, उक्तंच॥१॥ “रयणाए पढमपयरे हत्थतियं देहउस्सओ भणिओ।
छप्पन्नंगुल सड्डा पयरे २ हवइ वुड्डी॥" 'तत्थ णंजा सा उत्तरवेउब्विया' इत्यादि, जघन्यतोऽङ्गुलसङ्ख्येयभाग, प्रथमसमयेऽपि तस्या अङ्गुलसङ्घयेयभागप्रमाणाया एव भावात्, नत्वसङ्खयेयभागप्रमाणायाः,आहचसङ्ग्रहणिमूलटीकाकारो हरिभद्रसूरिः__"उत्तरवैक्रिया तुतथाविधप्रयत्नभावादाधसमयेऽप्यनुलसङ्ख्येयभागमात्रैव, उत्कर्षतः पञ्चदशधनूंषि अर्धतृतीयाहस्ताः" इदंच उत्तरवैक्रियशरीरावगाहनापरिमाणंत्रयोदशेप्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेषुप्रागुक्तभवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यं ।
शर्कराप्रभायां भवधारणीया उत्कर्षतः पञ्चदश धनूंषि अर्द्धतृतीयाहस्ताः,इदं चोत्कर्षतो भवधारणीयावगाहनापरिमाणमेकादशेप्रस्तटेऽवसातव्यं, शेषेषुतुप्रस्तटेष्विदं-शर्कराया:प्रथमे प्रस्तटेसप्तधनूंषि त्रयो हस्ताः षट्चाङ्गुलानि, द्वितीये प्रस्तटे अष्टौ धनूंषि द्वौ हस्तौ नवचाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि, पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरकुलानि, सप्तमे द्वादशधनूंषि द्वौ हस्तौ, अष्टमेत्रयोदशधनूंषि एको हस्तःत्रीणि अङ्गुलानि, नवमे चतुर्दशधषि षट्चाङ्गुलानि, दशमेचतुर्दशधनूंषि त्रयो हस्ता नवचाङ्गुलानि, एकादशे सूत्रोक्तमेव परिमाणं, अत्रापीदंतात्पर्यं-प्रथमेप्रस्तटेयत्परिमाणमुक्तंतस्योपरि प्रस्तटक्रमेणत्रयोहस्तास्त्रिणिचाङ्गुलानि प्रक्षेप्तव्यानि, ततो यथोक्तं प्रस्तटेषु परीमाणं भवति,
“सोचेव य बीयाए पढमे पयरंमि होइ उस्सेहो।
हत्थतिय तिन्नि अंगुल पयरे पयरे य वुडीए ।। ॥२॥ एक्कारसमे पयरे पन्नरस धणूणि दोन्निरयणीओ।
__बारस य अंगुलाई देहपमाणं तु विन्नेयं ।।" गाथाद्वयस्यापीयमक्षरगमनिका-यएवप्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्कर्षत उत्सेधो
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org