________________
१२२
प्रज्ञापनाउपाङ्गसूत्रम् - २-२१/-/-/५१०
॥२॥
“पाणिदयरिद्धिदंसणसुहुमपयत्थावगहणहेउं वा । संसयवोच्छेयत्थं गमणं जिनवायमूलंमि ॥”
तच्च वैक्रियशरीरापेक्षया अत्यन्त शुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं, तेज इति-तैजसं तेजसः - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यण, तत् ऊष्मलिङ्गं भुक्ताहारपरिणमनकारणं, तद्वशाच्च विशिष्टतपः समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तं च
119 11
“सव्वस्स उम्हसिद्धं रसाइयआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥”
'कम्मए' इति कर्मणो जातं कम्मंज, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह ये क्षीरनीरवत् अन्योऽन्यानुगताः सन्तः शरीररूपतया परिणतास्ते कर्मजं शरीरमिति, अत एवैतदन्यत्र कार्मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्"कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिष्फन्नं ।
119 11
सव्वेसिं सरीराणं कारणभूतं मुणेयव्वं ॥”
अत्र 'सव्वेसि ' मिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणशरीरं, न खल्वामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्कङ्कान्ती साधकतमं करणं, तथाहि कर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणादेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजससहितकार्मणवपुः परिकरितो गत्यन्तरं सङ्क्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरप्युक्तम्
119 11
"अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते ।
निष्क्रामन् प्रविशन् वापि, नाभोवोऽनीक्षणादपि ॥” इति ।
सम्प्रति औदारिकशरीरस्य जीवजातिभेदतोऽवस्थाभेदतश्च भेदानभिधित्सुराह'ओरालियसरीरे णं भंते!' इत्यादि, औदारिकशरीरमेकद्वित्रिचतुःपञ्चेन्द्रियभेदात् पञ्चधा, एकेन्द्रियौदारिकशरीरमपि पृथिव्यप्तेजोवायुवनस्पतिएकैन्द्रियभेदात् पञ्चविधं, पृथिवीकायिकैकेन्द्रियौदारिकशरीरमपि सूक्ष्मेतरभेदाद् द्विधा, पुनरेकैकं द्विधा पर्याप्तापर्याप्तभेदात्, एवमप्तेजोवायुवनस्पत्येकेन्द्रियौदारिकशरीराण्यपि प्रत्येकं चतुर्विधानीति सर्वद्व्ययै केन्द्रियोदारिकशरीराणि विंशतिधा, द्वित्रिचतुरिन्द्रियौदारिकशरीराणि प्रत्येकं पर्याप्तापर्याप्तभेदात् द्विभेदानि,
पञ्चेन्द्रियौदारिकशरीरं द्विविधं - तिर्यग्मनुष्यभेदात् तिर्यक्पञ्चेन्द्रिययौदारिकशरीरं त्रिधा, जलचरस्थलचरखचरभेदात्, जलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरं द्विविधं सम्मूर्च्छिमगर्भव्युत्क्रान्तिकभेदात्, एकैकमपि पुनर्द्विभेदं - पर्याप्तापर्याप्तभेदात्, स्थलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरमपि द्विधा-चतुष्पदपरिसर्पभेदात्, चतुष्पदस्थलचरतिर्यक्पञ्चेन्द्रियौदारिकशरीरमपि द्विधा- सम्मूर्च्छिमगर्भव्युतत्क्रान्तिकभेदात्, पुनरेकैकं द्विधा-पर्याप्तापर्याप्तभेदात्, परिसर्पस्थलचरतिर्यग्योनिकपञ्चेन्द्रियौदारिकशरीरमपि उरः परिसर्पभुजपरिसर्पभेदतो द्विभेदं, पुनरेकैकं द्विधा- सम्मूर्च्छिमगर्भव्युत्क्रान्तिकभेदात्, तत्रापि पुनः प्रत्येकं द्वैविध्यं पर्याप्तापर्याप्तभेदात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org