________________
पदं - २१, उद्देशक:-, द्वारं
चउप्पयतिरि० पं० ओरा० गब्भवक्कंतियचउप्पयथल० ति० पं० ओरा०, संमुच्छिमचउ० ओरालियसरीरे कइविहे पं० ?, गो० ! दुविहे पं०, तं०-पजत्तसंमु० चउ० थल० तिरि० पंचि० ओरा० अपजत्तसंमुच्छिचउ० थल० तिरि० पंचिं० ओरा०, एवं गब्भवक्कतिएवि,
१२१
परिसप्पथलयरतिरि० पंचि० ओरा० भंते ! कतिविधे पं० ?, गो० ! दु० पं०, तं० - उरपरिसप्पथल० पं० तिरि० ओरा० भुयपरिसप्पथलपं० तिरि० ओरालियसरीरे य, उरपरिसप्पथल० पंचिं० तिरि० ओरालियसरीरे णं भंते ! कतिविधे पं० ?, गो० ! दु० पं०, तं०-संमुच्छिमउर० थल० पंचिं० तिरि० ओरा० गब्भवरक्कंतियउर० थल० तिरि० पंचिं० ओरा०, संमुच्छि दुविहे पं० तं० - अपजत्तसंमु० उर० थल० तिरि० पंचिं० ओरालियसरीरे य पजत्तसंमुच्छिमउरपरिसप्प-थलयरितिर० पंचिं० ओरालि०, एवं गब्भवक्कंतियउरपरिसप्पे चउक्कतो भेओ, एवं भुयपरिसप्पावि संमुच्छिमगब्भवक्तंतियपज्जत्ता अपजत्ता य,
खहयरा दुविधा, पं०, तं०-संमुच्छिमा य गब्भवक्कंतिया य, संमुच्छिमा दुविधा पं० ?, पजत्ता अपजत्ता य, गब्भवक्कंतियावि पज्जत्ता अपजत्ता य ।
मणूसपंचिंदियओरालियसरीरे णं भंते ! कतिविधे पं० ?, गो० ! दुविहे पं०, तं०संमुच्छिममणूसपंचिं० ओरा० य गब्भवक्कंतियमणूसपंचिं० ओरालि०, गब्भवक्तंतियम० पंचिं० ओरालियसरीरे णं भंते! कतिविधे पं० ?, गो० ! दु० पं० तं०-पजत्तगब्भवक्कंतियमणूसपंचिंदियओरा० अपज्जत्तगगब्भ० मणूसपंचिंदियओरा० ।
--
वृ. तत्र 'यथोद्देशं निर्देश' इति प्रथमतो विधिद्वारमभिधित्सुरादौ शरीररमूलभेदान् प्रतिपादयति, - 'कइ णं भंते!' इत्यादि, कति - किंपरिमाणानि णमिति वाक्यालङ्कारे भदन्त ! शीर्यन्ते - प्रतिक्षणं विशरारुभावं बिभ्रतीति शरीराणि, शरीराण्येव शरीरकाणि, तथा स्वार्थेकप्रत्ययः, भगवानाह – गौ० ! पञ्च शरीराणि प्रज्ञप्तानि मया अन्यैश्च शैषेस्तीर्थकृद्भिः, तान्येव नामत आह'ओरालिए' इत्यादि, उदारं प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरशरीरस्याप्यनन्तगुणहीनत्वात्, यद्वा उदारं- सातिरेकयोजनसहस्रमानत्वात् शेषसरीरापेक्षया बृहत्प्रमाणं, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैकियं योजनलक्षमानमपि लक्ष्यते, उदारमेव औदारिकं विनयादिपाठादिकण्,
तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं तथाहि - तदेकं भूत्वा अनेकं भवति अनेकं भूत्वा एकं तथा अणु भूत्वा महद्भवति महच्च भूत्वा अणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वा अध्श्यं भवति अदृश्यं भूत्वा दृश्यमित्यादि, तच्च द्विविधं-औपपातिकं लब्धिप्रत्ययं च तत्रौपपातिकमुपपातजन्मनिर्मितं तच्च देवनारकाणां लब्धिप्रत्ययं तिरग्मनुष्याणां तथा 'आहारए' इति आहारकं चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिक- तथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाह्रियते - निर्वत्यते इत्याहारकं, 'कृद्बहुल' मिति वचनात् कर्मणि वुञ् यथा पादहारक इत्यत्र, उक्तं च"कज्जमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिज्जइ भणित्तं आहारगं तं तु ॥"
॥१॥
-कार्यं चेदम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org