________________
११८
प्रज्ञापनाउपाङ्गसूत्रम्-२-२० /-/ ६-९/५०७
जीविनस्त्रिदण्डिन;, अथवा चरकाः - कच्छोटकादयः परिव्राजकाः - कपिलमुनिसूनवः, चरकाश्च परिव्राजकाश्च तेषां तथा 'किव्विसियाणं 'ति किल्बिषं - पापं तदस्ति येषां ते किल्बिषिकास्ते च व्यवहारतश्चरणवन्त एव ज्ञानाद्यवर्णवादिनः, उक्तं च
"
119 11
“नाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं । माई अवण्णवाई किव्विसियं भावनं कुणइ ॥ काया वया य ते च्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कजं ? | एतरमुप्पाए अन्नोन्नावरणया दुवेण्हंपि । केवलदंसणनाणाणमेगकाले व एगत्तं ॥ जच्चाईहि अवण्णं विहसइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही पगासवाई अननुकूलो ।। अविसहणातुरियाई अनानुवत्ती य अवि गुरूणंपि । खणमेत्तपीइरोसा गिहवच्छलगा य संजइया ॥ गूहइ आयसहावं धायइ य गुणे परस्स संतेवि । चोरोव्व सव्वसंकी गूढायारो वितहभासी ॥"
॥५॥
॥६॥
तेषां, 'तिरिच्छियाणं' ति तिरश्चां - गवादीनां देशविरतिभाजां 'आजीवियाणं' ति आजीविकाः - पाखण्डविशेषाः गोशालमतानुसारिणः अथवाऽऽजीवन्ति ये अविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि इत्याजीविकाः तेषां, तथा 'आभियोगिणं' ति अभियोजनं- विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, स च द्विधा, यदाह
119 11
“दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो । दव्वंमि होंति जोगा विज्जा मंता य भावम्मि ||"
सोऽस्ति येषां तेन वा चरन्ति ये ते अभियोगिका आभियोगिका वा, तेच व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, उक्तं च
119 11
॥२॥
॥३॥
118 11
“कोउय भूईकम्मे पसिणापसिणे निमित्तमाजीवी । इद्धिरससायगरुओ अभिओगं भावणं कुणइ || "
कौतुकं - सौभाग्याद्यर्थं स्नपनं भूतिकर्म - ज्वरितादिभूतिदानं प्रश्नाप्रश्नः - स्वप्नविद्यादि, 'सलिंगीण’मिति रजोहरणादिसाधुलिङ्गवतां, किंविधानामित्याह - 'दंसनवावण्णगाणं' ति दर्शनं सम्यकत्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां निह्नवानामित्यर्थः, 'देवलोगेषु उववज्जमाणाणं' ति अनेन देवत्वादन्यत्रापि यथाऽध्यवसायमुत्पादो भवतीति प्रतिपादितं,
'विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे' इति, अत्र कश्चिदाहविराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते ?, द्रौपद्याः सुकुमालिकाभवे विराधितंसयमाया अपि ईशानकल्पे उत्पादश्रवणात्, नैष दोषः, तस्या हि संयमविराधना उत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधना, सौधर्मोत्पादश्च प्रभूततरसंयमविराधनायां भवति, यदि पुनर्विराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा बकुशादीनामुत्तरगुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org