________________
पदं-२०, उद्देशकः-, द्वारं-६-९
११७
॥१॥ “अणुव्वयमहव्वएहि य बालतवोकामनिज्जराए य ।
देवाऊ निबंधइ सम्मद्दिट्टी यजो जीवो।" तदयुक्तम्, यतोऽमीषामुत्कृष्टत उपरितनग्रैवेयकेषूपपातो वक्ष्यते, सम्यग्दृष्टीनां तु देशविरता- नामपि न तत्रोपपातोऽस्ति, देशविरतश्रावकाणामप्यच्युतादूर्द्धमगमनात्, नाप्येते निह्नवास्तेषामिहैव भेदेनाधिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्य- नुष्ठनयुक्ता द्रव्यलिङ्गधारिणऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः, तेऽपीहाखिलकेवलक्रियाप्रभावत उपरितनग्रैवेयकैषूत्पद्यन्त एवेति, असंयताश्च सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्,
‘अविराहियसंजमाण मिति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामतां संज्वलनकषायसामर्थ्यात्प्रमत्तगुणस्थानकवशाद्वा स्वल्पमायादिदोषसम्भवेनापिअनाचरितसर्वथाचरणोपघातमामित्यर्थः, तथा 'विराहियसंजमाणं'ति विराधितः-सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपत्त्या भूयः सन्धितः संयमो यैस्तेविराधितसंयमास्तषां अविराहियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां विराहियसंजमासंजमाण'मिति विराधित सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिज्ञया पुनर्नवीकृतः संयमासंयमो यैस्ते विराधितसंय- मासंयमास्तेषां, - असंज्ञिनां-मनोलब्धिरहितानामकामनिर्जरावतं तथा 'तावसाणं'ति परिशटितपत्राधुपभोगवतां बालतपस्विनां, तथा 'कंदप्पियाणं'ति कन्दप्पः-परिहासः स एमास्ति तेन वा ये चर न्ति ते कान्दर्पिकाः, कान्दर्पिका व्यवहारतश्चरणवन्त एवकन्दर्पकौकुच्यादिकारकाः, एकंच॥१॥ "कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य।
विम्हावितोय परं कंदप्पं भावनं कुणइ॥ ॥२॥ कहकहकहना हसणं कंदप्पो अनिहुया य उल्लावा।
कंदप्पकहाकहणं कंदप्पुवएस संसा य॥ भुमनयनवयणदसणच्छदो करपायकण्णमाईहिं।
तं तं करेइ जह जह हसइ परो अत्तणा अहसं । ॥४॥ वायाइ कुक्कुओ पुणतं जंपइ जेण इस्सए लोओ।
नानाविहजीवरुते कुव्वइ मुहतूरए चेव ।। भासइ दुयं २ गच्छए य दरिओ(य)गोव सो सरए। सव्वं दव्वं कुणडकारी फुट्टइ वड्डि(भरि)ओय दप्पेणं॥
वेसवयणेहिं हासं जनयंतो अप्पणो परेसिंच।
अह हासणोत्ति भन्नइ घयणोव्व छले नियच्छंतो। ॥७॥ सुरजालमाइएहिं तु विम्हयं कुणइ तब्विहजण्णस।
ते? न विम्हइ य सयं आहटुक्कहठ्ठएसुंच॥ ॥८॥ जो संजओवि एयासु अप्पसत्थासु भावणं कुणइ ।
सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥" तेषां कान्दर्पिकाणां, 'चरगपरिव्वाययाणं'ति चरकपरिव्राजका-धाटिभैक्षोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org