SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०६ प्रज्ञापनाउपाङ्गसूत्रम् - २ - १८/-/१६/४८८ संसार अपरित्ते दु० पं० तं० - अणादीए वा सपज्जवसिते अणादीए वा अपजवसिते, नोपरित्तेनो अपरित्ते णं पुच्छा, गो० ! सादीए अपज्जवसिते, वृ. परीतो द्विविधः - कायपरीतः संसारपरीतश्च तत्र यः प्रत्येकशरीरी स कायपरीतो, यस्तु सम्यकत्वादिना कृतपरिमितसंसारः स संसारपरीतः, कायपरीतो जघन्यतोऽन्तर्मुहूर्त्तं, स च यदा कश्चिन्निगोदादुद्धृत्य प्रत्येकशरीरिषु समुत्पद्य च तत्र चान्तर्मुहूर्त्तस्थित्वा भूयोऽपि निगोदेषूत्पद्यते तदा लभ्यते, उत्कर्षतोऽसङ्घत्येयं कालं, सचासङ्घत्येयः कालः पृथिवीकालो, यावान् पृथिवीकायिककायस्थितिकालस्तावान्वेदितव्य इत्यर्थः, तमेव कालतो निरूपयति-असङ्घयेया उत्सर्पिण्यवसर्पिण्यः, संसारपरीतो जघन्यतोऽन्तमुहूर्त तत ऊर्ध्वमन्तकृत्केवलित्वयोगेन मुक्तिभावात्, उत्कर्षतोऽनन्तं कालं, तमेव निरूपयति'अनंताओ' इत्यादि प्राग्वत्, तत ऊर्ध्वमश्यं मुक्तिगमनात्, कायापरीतोऽनन्तकायिकः, संसारापरीतः सम्यकत्वादिना अकृतपरिमितसंसारः, कायापरीतो जघन्येनान्तर्मुहूर्त्तं, सच यदा सकश्चित्प्रत्येकशरीरिभ्य उद्धृ त्य निगोदेषु समुत्पद्यते तत्र चान्तर्मुहूर्त्त स्थित्वा भूयोऽपि प्रत्येकशरीरिषूत्पद्यते तदाऽवसातव्यः, उत्कर्षतो वनस्पतिकालो वाच्यः, स च प्रागेवोपदर्शितः, तत ऊर्ध्वं नियमात्तत् उद्धृ तेः, संसारापरीतो द्विधा - अनाद्यपर्यवसितो यो न कदाचनापि संसार - व्यवच्छेदं करिष्यति, यस्तु करिष्यति सोऽनादिसपर्यवसितः, नोपरीतोनो अपरीतश्च सिद्धः, स च साद्यपर्यवसित एव । -: पदं - १८, दारं - १७ "पर्याप्त" : मू. (४८९) पजत्तएणं पुच्छा, गो० ! ज० अं० उ० सागरोवमसतपुहुत्तं सातिरेगं, अपज्जत्तए णं पुच्छा, गो० ! ज० उ० अंतो०, नोपञ्जत्तएनो अपजत्तए णं पुच्छा, गो० ! सादीए अपज्जवसिते बृ. पर्याप्तद्वारे पर्याप्तो जघन्येनान्तर्मुहूर्त्तं, तत ऊर्ध्वमपर्याप्तत्वप्रसक्तेः, उत्कर्षतः सातिरेकं सागरोपमशतपृथकत्वं एतावन्तं कालं पर्याप्तलब्ध्यवस्थानसम्भवात्, अर्याप्तो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, तत ऊर्ध्वमवश्यं पर्याप्तलभ्ध्युत्पत्तेः, नोपर्याप्तोनो अपर्याप्तश्च सिद्धः, सच साद्यपर्यवसितः, सिद्धत्वस्याप्रच्युतेः । " -: पदं - १८, दारं - १८ "सूक्ष्मं" : मू. (४९०) सुहुमे णं भंते! सुहुमित्ति पुच्छा, गो० ! ज० अंतो० उ० पुढविकालो, बादरे णं पुच्छा, गो० ! ज० अं० उ० असंखेज्जं कालं जाव खेत्तओ अंगुलस्स असंखेज्जति भागं, नोसुहुमनोबादरे णं पुच्छा, गो० ! सादीए अपञ्जवसिते वृ. सूक्ष्मद्वारे सूक्ष्मसूत्रे उत्कर्षतः पृथिवीकाल इति, यावान् पृथिवीकायिककायस्थितिकालस्तावान् वक्तव्यः । बादरसूत्रं सुगमं, अनयोश्च भावना प्रागेव कृता, नोसूक्ष्मोनोबादरश्च सिद्धस्ततः साद्यपर्यवसितः । -: पदं - १८, दारं - १९ "संज्ञी" : मू. (४९१) सण्णी णं भंते! पुच्छा, गो० ! ज० अंतो० उ० सागरोवमसतपुहुत्तं सातिरेगं, असण्णी णं पुच्छा, गो० ! ज० अंतो० उक्को० वणस्सइकालो, नोसण्णीनोअसण्णी णं पुच्छा, गो० ! सादीए अपज्जवसिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy