________________
१०७
पदं-१८, उद्देशकः-, द्वार-१९
वृ.संज्ञिद्वारे संज्ञिसूत्रेजघन्यतोऽन्तर्मुहूर्तेमिति, यदा कश्चिजन्तुरसंज्ञिभ्य उवृत्त्य संज्ञिषु समुत्पद्यते तत्र चान्तर्मुहबर्तं जीवित्वा भूयोऽपि असंज्ञिषूत्पद्यते तदा लभ्यते, उत्कृषटं सुगमं । असंज्ञी जघन्यतोऽन्तर्मुहूर्त, स चैवं-कश्चित् संज्ञिभ्य उद्वृत्त्यासंज्ञिषूत्पद्यते, तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि संज्ञिषु मध्ये समागच्छति, उत्कर्षतो वनस्पतिकालो, वनस्पतिकायस्याप्यसंज्ञिग्रहणेन ग्रहणात् नोसंज्ञिनोअसंज्ञी न सिद्धः, स च साद्यपर्यवसितः ।
- पदं-१८, दारं-२० "भव०" :मू. (४९२) भवसिद्धिए णं पुच्छा, गो० ! अणादीए सपञ्जवसिते, अभवसिद्धिए णं पुच्छा, गो० ! अणादीए अपञ्जवसिते, नोभवसिद्धिएनोअभवसिद्धिएणं पुच्छा, गो०! सादीए अपज्जवसिते।
वृ. भवसिद्धिकद्वारे 'भवसिद्धि ण'मित्यादि, भवे सिद्धिर्यवस्यासौ भवसिद्धिको भव्य इत्यर्थः, सचानादिसपर्यवसितः, अन्यथा भव्यत्वायोगात, अभवसिद्धकोऽभव्यः, सचानाद्यपर्यवसितः, अन्यथाऽभव्यत्वायोगात्, नोभव्योनोअभव्यश्च सिद्धः, ततः साद्यपर्यवसितः ।
___-पदं-१८, दारं-२१ "अस्ति" :मू. (४९३) धम्मत्थिकाए णं पुच्छा, गो०! सव्वद्धं, एवं जाव अद्धासमए।
वृ. अस्तिकायाः पञ्चापि सर्वकालभाविनः, अद्धासमयोऽपि प्रवाहापेक्षया, तत उक्तं ‘एवं जाव अद्धासमए'।
- पदं- १८, दारं-२२ “चरिम" :मू. (१९४) चरिमेणं पुच्छा, गो० ! अणादीए सपज्जवसिते, अचरिमे णं पुच्छा, गो० ! अचरिमे दुविधे पं०, तं०-अणादीएवाअपज्जवसितेसादीतेवा अपज्जवसिते (पन्नवणाएभगवईए अट्ठारसमं कायट्ठिइनामपयं समत्त)॥
वृ.चरमोभवो भविष्यतियस्य सोऽभेदाच्चरमो-भव्यस्तद्विपरीतोऽचरमः सचाभव्यस्तस्य चरमभवाभावात्, सिद्धश्च, तस्यापि चरमत्वायोगात्, तत्र चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात्, अचरमो द्विविधोऽनाद्यपर्यवसितः साद्यपर्यवसितश्च, तत्रानादिअपर्यवसितोऽभव्यः, साद्यपर्यवसितः सिद्धः।
पदं-१८- समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे अष्टादशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
पदं-१९- सम्यक्त्व म् । वृ. 'तदेवं व्याख्यातमष्टादशं पदं, साम्प्रतमेकोनविंशतितममारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरपदे कायस्थितिरुक्ता, अत्र तुकस्यां कायस्थितौ कतिविधाः सम्यग्दृष्टयादिभेदेन जीवा भवन्तीति चिन्त्यते, तत्रेदं सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org