SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पदं - १८, उद्देशक:-, द्वारं - १४ १०५ इत्याहारकत्वचिन्तायां क्षुल्लकभवग्रहणं ताभ्यां न्यूनमुक्तं, ऋजुगतिरेकवक्रगतिश्च न विवक्षिता, सर्वजघन्यस्य परिचिन्त्यमानत्वात्, उत्कर्षतोऽसङ्घयेयकालमित्यादि सुगमं, नवरं एतावतः कालादूर्ध्वमवश्यं विग्रहगतिर्भवति, तत्र चानाहारकत्वभित्यनन्तं कालमिति नोक्तं । केवलिसूत्रं सुगमं, छद्मस्थानाहारकसूत्रे 'उक्कोसेणं दो समया' इति त्रिसायिकी विग्रहगतिमधिकृत्य, चतुःसामयिकी पञ्चसामयिकी च विग्रहगतिर्न विवक्षितेत्यभिहितमनन्तरं, सयोगिभवस्थकेवलिअनाहारकसूत्रे त्रयः समया अष्टसामयिकस्य केवलिसमुद्घातस्य तृतीयचतुर्थपञ्चमरूपाः, उक्तं च 119 11 " दण्डं प्रथमे समये कपाटणथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकध्यापी चतुर्थे तु ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ तथा षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ औदारिकप्रयोक्ता प्रथमाष्टमसमयोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥” इति -गतमाहारद्वारं, अधुना भाषाद्वारमाह -: पदं - १८, दारं - १५ "भाषा" : मू. (४८७) भासए णं पुच्छा, गो० ! जहन्नेणं एगं समयं उक्को० अंतो०, अभासए णं पुच्छा, गो० ! अभासए तिविधे पं०, तं०- अणाइए वा अपजवसिए अणाइए वा सपज्जवसिए साइए वा सपज्जवसिए, तत्थ णं जे से साइए वा सपज्जवसिते से जहन्नेणं अं० उ० वणप्फइकालो वृ. 'भासए णं भंते!' इत्यादि, इह जघन्यत एकसमयता उत्कर्षत आन्तर्मुहूर्त्तिकता च वाग्योगिन इवावसातव्या, अभाषकस्त्रिविधस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यो न जातुचिदपि भाषकत्वं प्राप्स्यति सोऽनादयपर्यवसितो यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु भाषको भूत्वा भूयोऽप्यभाषको भवति स सादिसपर्यवसितः, सच जघन्योनान्तर्मुहूर्तं भाषित्वा कञ्चित्कालमवस्थाय पुनर्भाषकत्वोपलब्धेः अथवा द्वीन्द्रियादिभाषक एकेन्द्रियादिष्वभाषकेषूत्पद्य तत्र चान्तर्मुहूर्त जीवित्वा पुनवरपि यदा द्वीन्द्रियादिरेवोत्पद्यते तदा जघन्यतोऽन्तर्मुहूर्तमभाषकः, उत्कर्षतो वनस्पतिकालः, स च प्रागेवोक्त इति नोपदर्श्यते । गतं भाषकद्वारं, इदानीं परीतद्वारं, ॥२॥ ॥३॥ 118 11 -: पदं - १८, दारं - १६ "परित : मू. (४८८) परित्तए णं पुच्छा, गो० ! परित्ते दुविहे पं० तं० - कायपरिते य संसारपरित्ते य, कायपरित्ते णं पुच्छा, गो० ! जह० अंतो० उक्को० असं० पुढविकालो असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो, संसारपरित्ते णं पुच्छा, गो० ! ज० अंतो० उ० अनंतं कालं जाव अवड्डुं पणोग्गलपरियद्वं देणं । अपरित्ते णं पुच्छां, गो० ! अपरित्ते दु० पं० तं० - काय अपरित्ते य संसारअ०, काय अपरित्ते णं पुच्छा, गो० ! ज० अंतो० उ० वणस्सइकालो, संसार अपरित्ते णं पुच्छा, गो० ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy