________________
पदं-१८, उद्देशकः, द्वारं-११
१०३ विभङ्गज्ञानं सामान्यविषयमधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यते केवलं विभङ्गज्ञानिनोप्यवधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यत केवलं विभङ्गज्ञानिनोप्यवधिदर्शनमनाकारमात्रत्वेनाविशिष्टत्वात् अवधिज्ञानिनोऽवधिदर्शनतुल्यमिति तदप्यवधिदर्शनमुच्यते, न विभङ्गदर्शनमिति,
आहच मूलटीकाकारोऽप्येतद्भावनायाम्-“दंसणंच विभंगोहीणंजतो तुल्मेव, अतो चेवदोछावट्ठीओसाइरेगाओ' इति, ततोऽस्माभिरपि विभेङ्गेऽवधिदर्शनंभावितं, कार्मग्रन्थिकाः पुनराहुः यद्यपि साकारेतरविशेषभावेन विभङ्गज्ञानमवधिदर्शनंचपृथगस्तितथापिनसम्यग्निश्चयो विभङ्गज्ञानेन, मिथ्यात्वरूपत्वात्, नाप्यवधिदर्शनेन तस्यानाकारमात्रत्वादतःकिंतेनपृथग्विवक्षितेनापीति तदभिप्रायेण न विभङ्गावस्थायामवधिदर्शनं, नचैतत् स्वमनीषिकाविजृम्भितं, पूर्वसूरिभिरप्येवं मतविभागस्य व्यवस्थापितत्वात्, उक्तं च विशेषणवत्यं जिनभद्रगणिक्षमाश्रमणपूज्यापादैः॥१॥ “सुत्ते विभंगस्सवि परूवियं ओहिदसणं बहुसो।
कीस पुणो पडिसिद्धं कम्मप्पगडीपगरणंमि।। ॥२॥ विभंगेवि दरिसणं सामण्णविसेसविसयओ सुत्ते।
तंचऽविसिट्ठमनागारमेत्तं तोऽवहिविभंगाणं॥
कम्मपगडीमयं पुन सागरेयरविसेसभावेवि।
न विभंगनाणदंसणविसेसणमणिच्छयत्तणओ।" इति, अन्येतुव्याचक्षते-किंसप्तमनरकपृथिवीनिवासिनारककल्पनया?, सामान्येनैवनारकतिर्यग्नरामरभवेषु पर्यटतः खल्ववधिविभङ्गौ एतावन्तं कालं भवतस्तत उर्ध्वंभपवर्ग इति । केवलदर्शनिनः सूत्रं केवलज्ञानिनः सूत्रवद्भावनीयं,। गतं दर्शनद्वारम्, इदानीं संयतद्वारं, तत्रेदमादिसूत्रम
-पदं- १८, दारं-१२ “संयतः" :मू. (४८४) संजएणंभंते! संजतेत्तिपुच्छा, गो०! ज० एगसमयं उक्को० देसूर्णपुवकोडिं, असंजतेणंभंते! असंजएत्ति, पुच्छा, गो०! असंजतेतिविधेपं०, तं०-अणातीएवाअपज्जवसिते अणातीए वा सपञ्जवसिते सातीए वा सपज्जव सिते, तत्थणंजे से सातीए सपज्जवसिते से जह० अं० उक्को० अनं० अनंताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्ततो अवडं पोग्गलपरियट्ट देसूणं, संजतासंजते णं पुच्छा, गो० ! जह० अंतो० उक्को० देसूणं पुव्वकोडिं, नोसंजतेनोअसंजतेनोसंजतासंजते णं पुच्छा, गो०! सादीए अपज्जवसिते।।
वृ. 'संजए णं भंते' इत्यादि, जघन्यत एकसमयता संयतस्य चारित्रपरिणामसमय एव कस्यापि कालकरणात्, असंयतस्तु त्रिधा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रयः संयमंकदाचनापिनप्राप्स्यति सोऽनाद्यपर्यवसितो, यस्तुप्राप्यस्यति सोऽनादिसपर्यवसितो, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः, सच जघन्येनान्तर्मुहूर्त, ततः परंकस्यापिपुनरपि संयमप्रतिपत्तिभावातू, उत्कर्षतोऽनन्तंकालमित्यादिप्राग्वत्ततऊर्ध्वमवश्यं संयमप्राप्तिः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org