SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/१०/४८२ विभङ्गज्ञानी जायते, जातश्च सन्नप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोवपमस्थितिको नैरयिको जायते तदा भवति यथोक्तमुत्कृष्टं मानं, तत ऊर्ध्वंतु सम्यकत्वप्रतिपत्त्याऽवधिज्ञानभावतःसर्वथाऽपगमाद्वा तद्विभङ्गज्ञानमपगच्छति।गतंज्ञानद्वारम्, इदानीं दर्शनद्वार, तत्रेदमादिसूत्रम् -: पदं - १८, दारं-११- "दर्शन" :मू. (४८३) चक्खुदसणीणंभंते! पुच्छा, गो०!जह० अंतो० उक्कोसेणंसागदरोवमसहस्सं सातिरेगं, अचक्खुदंसणीणं भंते ! अचक्खुदंसणित्ति काल०, गो०! अचक्खुदंसणी दुविहे पं०, तं०-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिए, ओहिदंसणी णं पुच्छा, गो० ! जह० एगं समयं उक्को० दो छावट्ठीओ सागरोवमाणं साइरेगाओ, केवलदंसणी णं पुच्छा, गो०! सातीए अपञ्जवसिते॥ वृ.चक्खुदंसणीणंभंते!' इत्यादि, इह यदात्रीन्द्रियादिश्चतुरिन्द्रियादिषूत्पद्यतत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपित्रीन्द्रियादिषुमध्ये उत्पद्यतेतदा चक्षुर्दर्शनीअन्तर्मुहूर्तलभ्यते, उत्कर्षतः सातिरेकं सागरोपमसहन, तच्चतुरिन्द्रियतिर्यक्पञ्चेन्द्रियनैरयिकादिभवभ्रमणेनावसातव्यम्, अचक्षुर्दर्शनी अनाद्यपर्यवसितो यो कदाचिदपि न सिद्धिभावमधिगमिष्यति, यस्त्वधिगन्ता सोऽनादिसपर्यवसितः, तथा तिर्यक्पञ्चेन्द्रियो मनुष्यो वातथाविधाध्यवसायादवधिदर्शनमुत्पाद्यानन्तरसमये यदि कालं करोति तदाऽवधिदर्शनं प्रतिपतति, तदाऽवधिदर्शनिन एकसमयता, उत्कर्षतोऽवधिदर्शनी द्विषट्षष्टी सागरोपमाणि सातिरेकाणि, कथमिति चेत् ?, उच्यते, इह कश्चिद्विभङ्गज्ञानी तिर्यक्पञ्चेन्द्रियो मनुष्यो वाऽप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्याऽधःसप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थिति रयिको जातः, तत्र चोद्वर्तनाप्रत्यासत्तिकाले सम्यकत्वमुत्पाद्य ततः परिभ्रष्टसततोऽप्रतिपतितेन विभङ्गज्ञानेन पूर्वकोट्यायुष्केषु तिर्यक्पञ्चेन्द्रियेषु समुत्पन्नस्तत्रच परिपूर्ण स्वायुः प्रतिपाल्य पुनरप्रतिपतितविभङ्ग एवाधःसप्तमपृथिव्यांत्रयस्त्रिंशत्सागरोपमस्थितिको नैरयिकोजातस्तत्रापिचोवृत्तिप्रत्यासत्तौसमकत्वमासाद्य परित्यजति, ततोभूयोऽप्यप्रतिपतितविभङ्गएवपूर्वकोट्यायुष्केषुतिर्यक्पञ्चेन्द्रियेषुजातस्तदेवमेका षट्षष्टिः सागरोपमाणामभूत, सर्वत्रच तिर्यसूत्पद्यमानोऽविग्रहेणोत्पद्यते, विग्रहे विभङ्गस्य तिर्यक्षु मनुष्येषुच निषेधात्, यद्वक्ष्यति-“विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा आहारगा नो अनाहारगा" इति, आह-किं सम्यकत्वमेषोऽपान्तराले प्रतिपाद्यते ?, उच्यते, इह विभङ्गस्य स्थितिरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाणि देशोनपूर्वकोट्यभ्यधिकानि, तथा चोक्तं प्राक्-"विभंगनाणी जह० एगं समयं उक्को० तेत्तीसं सागरोवमाइंदेसूणाए पुव्वकोडीए अब्भहियाई" इति, तत एतावन्तंकालमविच्छेदेन विभङ्गस्याप्राप्यमाणत्वात् अपान्तराले सम्यकत्वंप्रतिपाद्यते, ततोऽप्रतिपतितविभङ्ग एव मनुष्यत्वमवाप्य संयम पालयित्वा द्वौ वारौ विजयादिषूत्वद्यमानस्य द्वितीया षट्षष्टिः सागरोपमाणां सम्यग्दष्टेर्भवति, एवं द्वे षट्षष्टी सागरोपमणमवधिदर्शनस्य, अथ विभङ्गावस्थायामवधिदर्शनं कर्मप्रकृत्यादिषुप्रतिषिद्धं ततः कथमिह विभङ्गेतद्भाव्यते?, नैष दोष, सूत्रे विभङ्गेऽप्यवधिदर्शनस्य प्रतिपादितत्वात्, तथा ह्ययं सूत्राभिप्रायः-विशेषविषयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy