________________
१००
प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/९/४८१
भक्षितहपूरपुरुषस्यसितेपीतप्रतिपत्तिवत्स मिथ्याष्टिः, ननुमिथ्याष्टिरपिकश्चिद्भक्ष्यं भक्ष्यतया जानाति पेयं पेयतया मनुष्यं मनुष्यतया पशुंपशुतया ततःस कथं मिथ्याष्टिः?, उच्यते, भगवति सर्वज्ञे तस्य प्रत्ययाभावात्, इह हि भगवदर्हप्रणीतं सकलमपि प्रवचनार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीप्येष मिथ्याष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशतः, उक्तंच॥१॥ “सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः ।
मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम्॥" किं पुनः शेषो भगवदर्हदभिहितं यथावद् जीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकलः, ननु सकलप्रवचनाभिरोचनात् तद्गतकतिपयार्थानां चारोचनादेष न्यायतः सम्यग्मिथ्याष्टिरेव भवितुमर्हतिकथं मिथ्याष्टिः?, तदसत्, वस्तुतत्त्वापरिज्ञानात्, इह यदा सकलं वस्तु जिनप्रणीततया सम्यक् श्रद्धते तदानीमसौ सम्यग्दृष्टिर्यदा त्वेकस्मिन्नपिवस्तुनि पर्याये वा मतिदौर्वल्यादिना एकान्तेन सम्यक्परिज्ञानमिथ्यापरिज्ञानाभावतो नसम्यक्श्रद्धानंनाप्येकान्ततो विप्रतिपत्तिः तदा सम्यग्मिथ्याष्टिः, उक्तं च शतकबृहचूर्णी-“जहा नालिकेरीदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स पुरिसस्स ओयणाइए अनेगविहे ढोइए तस्स आहारस्स उवरिंनरुईन यनिंदा, जेण तेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, __एवंसम्मामिच्छद्दिहिस्सविजीवाइपयत्थाणंउवरिंनयरुईनाविनिंदा"त्ति, यदापुनरेकस्मित्रपिवस्तुनि पर्यायवाएकान्ततो विप्रतिपद्यते तदा मिथ्याधष्टिरेवेत्यदोषः, सचत्रिविधः, तद्यथाअनाद्यपर्यवसितोऽनादिसपर्यवसितःसादिसपर्यवसितश्च, तत्र यः कदाचनापिसम्यकत्वंनावाप्यस्तति सोऽनाद्यपर्यवसितः, यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तुसम्यकत्वमासाद्य भूयोऽपि मिथ्यात्वंयाति ससादिसपर्यवसितः, सचजघन्येनान्तर्मुहूर्त, तदनन्तरंकस्यापि भूयः सम्यक्त्वावाप्तेः, उत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं द्विधा प्ररूपयति
कालतः क्षेत्रतश्च, तत्र कालतोऽनन्ताउत्सर्पिण्यवसर्पिणीर्यावत्, क्षेत्रतोऽपार्द्धपुद्गलपरावर्तदेशोनं,अत्र क्षेत्रत इति निर्देशात् क्षेत्रपुद्गलपरावतः परिग्राह्यो, नतुद्रव्यपुद्गलपरावदियः, एवं पूर्वोत्तरत्रापिच भावनीयं, 'सम्मामिच्छादिट्ठीण'मित्यादि, सम्यग्मिथ्याष्टियस्यासौ सम्यग्मिध्याष्टिः सजघन्यत उत्कर्षतोवाअन्तर्मुहूर्त, परतोऽवश्यंतत्परिणामविध्वंसात्, तथाजीवस्वाभाव्यात् । गतं सम्यकत्वद्वारमिदानी ज्ञानद्वारं, तत्रेदमादिसूत्रम्
-:पदं-१८, दारं-१०:- "ज्ञानं":मू. (४८२) नाणी णं भंते! नाणित्ति काल०, गो०! नाणी दुविधे पं०, तं०-सातीते वा अपजवसिते साइए वा सपजवसिते, तत्थ णं जे से सादीए सपञ्जवसिते से जहन्नेणं अंतो० उक्को० छावडिं सागरोवमाइं साइरेगाई,
आभिनिबोहियनाणी णं पुच्छा, गो० ! एवं चेव, एवं सुयनाणीवि, ओहिनाणीवि एवं चेव, नवरं जहन्नेणं एगं समयं, मनपज्जवनाणी णं भंते ! पुच्” मनपज्जवनाणित्ति कालतो०, गो०! जह० एगसमयंउक्को० देसूणा पुवकोडी, केवलनाणी णंपुच्छा, गो०! सातिए अपज्जवसिते
अन्नाणी मतिअन्नाणी सुतअन्नाणी पुच्छा, गो० ! अन्नाणी मइअन्नाणी सुयअन्नाणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org