SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पदं-१८, उद्देशकः-, द्वारं-८ सागरोपमाणिपल्योपमासङ्ख्येयभागाभ्यधिकान्युक्तानि तानि पञ्चमपृथिव्यपेक्षया वेदितव्यानि, तत्र हिप्रथमप्रस्तटेनीललेश्या पंचमियाए मीसा' इति वचनात्, तस्मिंश्च प्रथमलप्रस्तटेस्थितिरुत्कर्षत एतावती, ये तु पूर्वोत्तरभगवते अन्तर्मुहूर्ते त पल्योपमासङ्ख्येयभागे एवान्तर्गते इति न पृथग्विवक्षिते, एवमुत्तरत्रापि द्रष्टव्यं, कापोतलेश्यासूत्रे त्रीणि सागरोपमाणि पल्योपमासङ्खयेयभागाभ्यधिकानि तृतीयनरकपृथिव्यपेक्षयाऽवसातव्यानि, तृतीयपृथिव्यामपि प्रथमप्रस्तटे कापोतलेश्याया भावात्, 'तईयाए मीसिया' इति वचनात् तत्र चोत्कृष्टस्थितेरेतावत्याः सम्भवात्, तेजोलेश्यासूत्रे द्वे सागरोपमे पल्योपमासङ्खयेयभागाभ्यधिके ईशानदेवलोकदेवापेक्षया वेदितव्ये, ते हि तेजोलेश्याका उत्कर्षत एतावत्स्थितिकाः, पद्मलेश्यासूत्रे दश सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि ब्रह्मलोकापेक्षया भावनीयानि, तत्र हि देवानां स्थितिरुत्कृष्टा दश सागरोपमाणि लेश्या च पद्मलेश्या, ये च पूर्वोत्तरभगवते अन्तर्मुहूर्ते ते किलैकमन्तर्मुहूर्त्तमिति अन्तर्मुहूत्तभ्यिधिकानीत्युक्तं, शुक्ललेश्यासूत्रे त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि अनुत्तरसुरापेक्षया, तेषामुत्कर्षतः स्थितेः त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात्, अन्तर्मुहूर्ताभ्यधिकत्वभावनाच प्राग्वत्, अलेश्यः-अयोगिकेवली सिद्धश्च, ततो न तस्यामप्यवस्थायामलेश्यत्वव्या घात इति साद्यपरेयवसितः । गतं लेश्याद्वारम्, इदानीं सम्यकत्वद्वारं तत्रेदमादिसूत्रम् - पदं- १८, दारं-९- “सम्यक्त्व " :मू. (४८१) सम्मदिट्ठीणंभंते! सम्मदि० काल०?, गो०! सम्मद्दिट्ठीदुविहे पं०, तं०-सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते से जह० अंतो० उक्को० छावहिँ सागरोवमाइंसाइरेगाई, मिच्छादिट्ठीणंभंते! पुच्छा०, गो० ! मिच्छादिट्ठीतिविधेपं०, तं०-अणाइए अपजवसिए वा अणादीएवा सपज्जवसिएसादीए वा सपज्जवसिए, तत्थणंजे से सादीएसपज्जवसिते से जह० अंतो० उक्को० अनंतं कालं अनंताओ उइस्सप्पिणिओसप्पिणीओ कालतो खेत्ततो अवटुं पोग्गलपरियट्ट देसूणं, सम्मामिच्छादिट्ठीणं पुच्छा, गो०! जह० अंतो० उक्को० अंतो०। वृ. “सम्मद्दिट्ठीणंभंते!' इत्यादि, सम्यग-अविपर्यस्ताष्टि:-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, स चान्तरकरणकालभाविना औपशमिकसम्यकत्वेन सासादनसम्यकत्वेन विशुद्धदर्शनमोहपुओदयसम्भविक्षायोपशमिकसम्यकत्वेन सकलदर्शनमोहनीयक्षयसमुत्थक्षायिकसम्यकत्वेन वा द्रष्टव्यो, निर्वचनं सम्यग्दृष्टिर्द्विविधः प्रज्ञप्तः, तद्यथा-'साद्यपर्यवसितः' एष क्षायिके सम्यकत्वे उत्पादिते सतिवेदितव्यः, तस्य प्रतिपाताभावात्, ‘सादिसपर्यवसितः एषक्षायोपशमिकादिसम्यकत्वापेक्षया, तत्र योऽसौ सादिसपर्यवसितः सम्यग्दृष्टिः सजघन्येनान्तर्मुहूर्त, परतो मिथ्यात्वगमनात्, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि, तत्र यदि वारद्वयं विजयादिषु चतुर्वप्रतिपतितसम्यकत्व उत्कृष्टस्थितिको देव उत्पद्यते वेलात्रयं वाऽच्युतदेवलोके ततो देवभवैरेवषट्षष्टिः सागरोपमाणि परिपूर्णानि भवन्ति, ये तु मनुष्यभवाः सम्यकत्वसहितालस्तेऽधिका इति तैः सातिरेकाणीति, उक्तंच-“दो वारे विजयाइसु गयस्स तिन्निऽच्चुए अहव ताई । अहरेगं नरभवियं" इति 'मिच्छादिट्ठीणंभंते!' इत्यादि, मिथ्या-विपर्यस्ता दृष्टिः-जीवारदिवस्तुतत्त्वप्रतिपत्तिर्यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy