________________
प्रज्ञापनाउपाङ्गसूत्रं १-२/-/-/२०३
'आसत्तोसत्तविउलवट्टवग्धारियमलावा' इति आ - अवाङ्अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः उल्लोचकले उपरि संबद्ध इत्यर्थः विपुला - विस्तीर्णः वृत्तो - वर्तुलः 'वग्घारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो येषु तान्यासक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन - क्षिप्तेन पुष्पपुञ्चलक्षणेन उपचारेण–पूजया कलितानिपञ्चवर्णसुरभिमुक्तपुष्पपुञ्जपचारकलितानि,
९४
'कालागुरुपवरकुन्दुरुक्कतुरुक्क धूवमधमधंतगन्धुद्धूयाभिरामे' इति कालागुरुः प्रसिद्धः प्रवरः - प्रदानः कुन्दुरुक्कः- चीडा तुरुष्कं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुक्कतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्धृत- इतस्ततो विप्रसृतस्तेनाभिरामाणि– रमणीयानि कालागुरुप्रवरकुनदुरुक्कतुरुष्कधूपमघमघायमानगन्धोद्धूताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धाः तेच ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः स एष्वस्तीति सुगन्धवरगनधगन्धिकानि, “अतोऽ नेकस्वरात्” इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि - सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरोगणानां संघः -समुदायः तेन सम्यक् - रमणीयताय विकीर्णानि - व्याप्तानि अप्सरोगणसङ्घविकीर्णानि, तथा दिव्यानां त्रुटितानाम्आतोद्यानां वेणुवीणामृदङ्गादीनां ये शब्दास्तैः संप्रणदितानि - सम्यक् - श्रोतृमनोहारितया प्रकर्षेण सर्वकालं नदितानि - शब्दवन्ति,
'सर्वरत्नमयानि' सर्वात्मना - सामस्त्येन न त्वकदेशेन रत्नमयानि समस्तरत्नमयानि वा, अच्छानि – आकाशस्फटिकवदतिस्वच्छानि, श्लक्ष्णानि - श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसृणानि घुण्टितपटवत्, 'घट्टा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव,
अत एव नीरजांसि स्वाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमलाभावात् निष्पङ्कानि - कलङ्गविकलानि कर्दमरहितानि वा 'निक्कंकडच्छाया' इति निष्कङ्कटा - निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि, सप्रभाणि-स्वरूपतः प्रभावन्ति, समरीचीनिबहिर्विनिर्गतकिरणजलानि, सोद्योतानि - बहिव्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय - मनः प्रसत्तये हितानि प्रसादीयानि - मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः चक्षुषी न श्रमं गच्छत इति ततापत्यार्थः 'अभिरूपा' इति अभि- सर्वेषां द्रष्टृणां मनः प्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः, अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरापाणि ।
मू. (२०४) असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य । सिपवणथणियनामा दसहा एए भवणवासी ॥
मू. (२०५) चूडामणिमउडरयणभूसणणागफडगरुलवइरपुन्त्रकलसंकउप्फेसा सीहमवरगयंक- अस्सवरवद्धमाणनिजुत्तचित्तचिंधगता सुरूवा महड्डिया महज्जुइआ महब्बला महायसा महानुभावा महासोक्खा हारविराइअवच्छा कडगतुडियथंभियभुआ अंगदकुंडलमट्ठगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगपवरत्थपरिहिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org