________________
पदं-२, उद्देशकः-, द्वारं
सहस्राणि भवनानां, ततः सर्वसंख्याया यथोक्तं भवनसंख्यानं भवति,
तेणंभवणा' इत्यादि, तानि ‘णं' इति वाक्यालङ्कारे, पुंस्त्वंप्राकृतत्वात्, भवनानि बहिर्वत्तानि-वृत्ताकाराणिअन्तः समचतुरस्राणिअधस्तनभागेपुष्करकर्णिकासंस्थानसंस्थितानिकर्णिका नाम उन्नतसमचित्रबिन्दुकिनी 'उक्विन्नंतरविउलगंभीरखातफलिहा' इति उत्कीर्णमिवोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति?
खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति, खातानिच परिखाश्च खातपरिखाः उत्कीर्णान्तरा विपुला-विस्तीर्णा गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः-परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पागारट्टालयकवाडतोरणपडिदुवारादेसभागा' इति, प्रतिभवनंप्राकारेषु-सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राट्टालकाः-प्राकारस्येपरिभृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात्, तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि-स्थूलद्वारापान्तरालवर्तीनि लघुद्वाराणि,
तथा 'जंतसयग्घिमुसलमुसंढिपरिवारिया' इति यन्त्राणि-नानाप्रकाराणि शतघ्नयोमहायष्टयो महाशिला वा याः' पातिताः सत्यः पुरुषाणां शतानि घ्नन्ति मुशलानि-प्रतीतानि मुसण्ढयः-प्रहरणविशेषाः तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्यो मशक्यानिअयोध्यत्वादेवच 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालंजयवन्तीत्यर्थः, तथा सदा-सर्वकालं गुप्तानिप्रहरणैः पुरुषैश्चयोद्ध भिः सर्वतः समन्ततो निरन्तरंपरिवारिततया परेषामसहमानानांमनागपिप्रवेशासंभवात्, ‘अडयालकोट्ठगरइया' इति अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः,
तथा अष्टचत्वारिशंभेदभिन्नविच्छित्तयः कृतावनमाला येषुतानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वमिदधति-अडयालशब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽयमर्थःप्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि, शिवानि-सदामङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः-समन्ततोरक्षितानि किङ्करामरदण्डोपरक्षितानि, 'लाउल्लोइयमहिया' इति लाइयंनाम-यद् भूमोमयादिनोपलेपनं उल्लोइयं-कुड्यानांमालस्यच सेटिकादिभिःसंमृष्टीकरणं, लाउल्लोइयाभ्यां महितानि-पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेनचददरेण-बहलेनचपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यकलशा येषुतानि उपचितचन्दनकलशानि, 'चन्दनघडसुकयतोरणपडिदुवारदेसभागा' इतिचन्दनघटैःचन्दनकलशैः सुकृतानि सुष्टुकृतानिशोभितानीति तात्पर्यार्थः यानि तोरणानितानिचन्दनघटसुकृततोरणानि प्रतिद्वारदेशभागे येषु तानि चन्दनघटसुकृततोरणप्रतिद्वारदशभागानि तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org