SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पदं - २, उद्देशक:-, द्वारं परिवसंति ?, गोयमा ! सट्ठाणेणं सत्तसु पुढवीसु, तं० - रयणप्पभाए सकरप्पभाए वालुयप्पभाए पंकप्पभाए दूमप्पभाए तमप्पभाए तमतमप्पभाए, - - एत्थ णं नेरइयाणं चउरासीइ निरयावाससयसहस्सा भवंतीति मक्खायं, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमांसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं नेरइयाणं पजत्तापजत्तगाणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे, एत्थ णं बहवे नेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकण्हा वन्नेणं प० समणाउसो . ते णं तत्थ निच्चं भीता निच्चं तत्था निचं तसिया निच्चं उव्विग्गा निच्चं परममसुहसंबद्धं नरगभयं पच्चनुभवमाणा विहरंति । वृ. 'कहिणं भंते! नेरइयाणं' इत्यादि, कस्मिन् प्रदेशे भदन्त ! नैरयिकानां पर्याप्तपर्याप्तानां स्थानानि प्रज्ञप्तानि ?, एतदेव व्यक्तं पृच्छति यथा अन्येऽप्यवबुध्यन्ते - 'कहि णं' इति कस्मिन् प्रदेशे 'णं' इति वाक्यालंकृतौ नैरयिकाः परिवसन्ति ?, भगवानाह - गौतम ! स्वस्थानेन सप्तसु पृथिवीषु, ता एव नामग्राहमाह - रयणप्पभाए' इत्यादि, गतार्थं, 'एत्थ णं' इत्यादि, अत्र - एतासु सप्तसु पृथिवीषु नैरयिकाणां सर्वसंख्यया चतुरशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि रत्नप्रभायांत्रिंशन्नरकावासशतसहस्राणि भवन्ति, शर्कराप्रभायां पञ्चविशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तमः - प्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमः प्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिर्लक्षा नरकावासानामित्याख्यातं मया शेषैस्तीर्थकृद्भिः 'ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिर्लक्षणप्रमाणाः सर्वेऽपि प्रत्येकमन्तः-मध्यभागे ( वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्रः - चतुरस्रकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टथ वृत्तत्र्यम्नचतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्येव -प्रहरणविशेषस्य यत्संस्थानम् - आकारविशेषस्तीक्ष्णतालक्षणस्तेनसस्थिताः- तथाहि - तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निच्चंधयारतमसा' इति तमसा नित्यान्धकाराः- उद्योताभावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं सर्वकालमन्धकाराः, त्रापवर- कादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्म- दीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्न - कालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं तमसा नित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितं, उद्योतकारिणामसंभवात्, तथा चाह'ववगयगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतः - परिभ्रष्ट ग्रहचन्द्रसूर्यनश्रत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था-मार्गे येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति स्वभावसंपन्नैर्मेदोव Jain Education International For Private & Personal Use Only www.jainelibrary.org ८७
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy