SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-/१९५ सापूतिरुधिरमांसैर्यश्चिक्खिल्लः-कर्दमः तेन लिप्तं-उपदिग्धमनुलेपनेन-सकृदिलप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते भेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्सनेऽप्यतिजुगुप्सोत्पत्तेः, क्वचिद् ‘वीसा' इति पाठः, तत्र विना-आमगन्धिकाः परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः। 'काउयअगणिवत्राभा' इति, लोहे धम्यमाने याक् कपोतो बहुकृष्णारूपोऽग्नेर्वर्णः, किमुक्तं भवति?-याध्शी बहुकृष्णवर्णभूताअग्निज्वाला विनिर्गच्छतीति ताश्याभा-आकारो येषां ते कपोताग्निवर्णाभाः, धम्यानलोहाग्निज्वालाकल्पाइति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरुपत्वात्, एतच्च षष्ठसप्तमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति-'नवरं छट्ठसत्तमीसुणं काउअगणिवन्नाभा न भवन्ति' तथा कर्कशः-अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते-सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्श-शब्दैरशुभा अतीवासातरूपा नरकेषु वेदना, . “एत्थणं इत्यादि, यावत्तत्थणंबहवेनिरयापरिवसन्ति' 'काला' इत्यादि,कालाः कृष्णाः, तत्र कोऽपि निष्प्रभतया मन्दकृष्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थं विशेषणान्तरमाहकालावभासाः-कालः–कृष्णोऽवभासः-प्रभाविनिर्गमो येभ्यस्तेकालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अतएव गम्भीरलोकमहर्षाः-गम्भीरः अतीवोत्कटो लोमहर्षो-लोमोद्धर्षो भयवशाद् येभ्यस्ते गम्भीरलोमहर्षाः, किमुक्तं भवति? ____ एवंनामकृष्णाः कृष्णावभासायदर्शनमात्रेऽपिशेषनारकजन्तूनां भयसंपादनेनमात्रातिगं लोमहर्षमुत्पादयन्तीति, अत एव भीमाः' भयानकाः, भीमत्वादेव उत्रासनकाः-उत्रास्यन्ते शेषनारकजन्तव एभिरित्युत्रासना; उत्रासनाएवोत्रासनकाः, किंबहुना?-'वर्णेन' वर्णमधिकृत्य परमकृष्णाः, यत ऊर्ध्वंन किमपि कृष्णमस्ति भयानकं वा, बहूत्कर्षप्राप्तकृष्णवर्णाः प्रज्ञप्ता मया शैषैश्च तीर्थकरैः हे श्रमण! हे आयुष्मन् ! __ 'तेणं निच्चं भीया' इत्यादि, तेनैरयिकाः 'ण' इति वाक्यालङ्कारे नित्यं सर्वकालं क्षेत्रस्वभावजनितमहानिबिडान्धकारदर्शनतो भीताः नित्यं सर्वकालंत्रस्ताः परमाधार्मिकपरस्परोदीरितदुःखसंपातभयादग्रेऽपित्रास(स)मुपपन्नाः 'नित्यं सर्वकालं परमाधार्मिकैः परस्परंवात्रासिताःत्रासंग्राहिताः तथा नित्यं सर्वकालं यथायोगं परमदुःसहशीतोष्णवेदनानुभवतः परमाधार्मिकपरस्परोदीरितदुःखानुभवतश्चोद्विग्नाः-तद्गतवासपराङ्गमुखचित्ताःएवं 'नित्यं' सर्वकालं परममशुभं-एकान्तेनाशुभंसंबद्धम्-अनुबद्धंनतुजातुचिदपिमनागप्यपान्तरालेव्यवच्छिन्नसंतानं 'नरकभयं नरकदुःखं 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना 'विहरन्ति' अवतिष्ठन्ते। मू. (१९६) कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प०?, कहिणं भंते ! रयणप्पभापुढवीनेरइआ परिवसंति?, गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एणं जोयणसहस्समोगाहित्ता हेट्ठा चेगंजोयणसहस्सं वज्जित्ता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावाससयसहस्सा भवन्तीति मक्खायं, तेणं नरगाअंतो वट्टा बाहिं चउंसाअहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy