________________
प्रज्ञापनाउपाङ्गसूत्रं-१-२///१९२
देवनैरयिकवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु गच्छन्ति, ततोऽपान्तरालगतावपि वर्तमाना अमी गृह्यन्ते, अतिप्रभूताश्च स्वभावतोऽपी (तोऽमी इ) त्युपपातेन समुद्घातेन (च) सर्वलोके वर्तन्ते ।
अन्ये त्वभिदधति-स्वभावत एवामी बहव इति उपपातेन समुद्घातेन च सर्वलोकव्यापिनः, तत्रोपपातः केषांचिद् ऋजुगत्या केषांचिद् वक्रगत्या । तत्र ऋजुगतिः सुप्रतीता, वक्रस्थापना चैवम्, अत्र यदैव परथमं वक्रमेके संहरन्ति तदैवापरे तद्वक्रदेशमापूरयन्ति, एवं द्वितीयवक्रदेशसंहरणेऽपि वक्रोत्पत्तावपि प्रवाहतो निरन्तरमापूरणं भावनीयम् ।
'सट्ठाणेणं लोगस्स असंखेजइभागे' इति यथा पर्याप्तानां भावितं तथाऽपर्याप्तानामपि भावनीयम्, तन्निश्रया तेषामुत्पादभावात् ।
८२
सूक्ष्मपृथिवीकायिकपर्याप्तापर्याप्तसूत्रे 'जे पत्ता अपज्जत्ता ते सव्वे एगविहा अविसेसा अनाणत्ता सवलोलयपरियावन्नगा' इति सूक्ष्मपृथिवीकायिका ये पर्याप्ता ये चापर्याप्ताः ते सर्वेप्येकविधाः - एकप्रकाराः, प्राक्कृतं स्वस्थानादिविचारमधिकृत्य भेदाभावात्, अविशेषाविशेष- रहिताः, यथा पर्याप्तस्तथेतरेऽपीति भावः ‘अनानात्वा' नानात्ववर्जिताः, देशभेदेनालक्षितनानात्वा इत्यर्थः, किमुक्तं भवति ? - एष्वाधारभूतेष्वाकाशप्रदेशेषु एके तेष्वेव इतरेऽपीति, सर्वलोकपर्यापन्नाः- सर्वलोकव्यापिनः उपपातसमुद्घातस्वस्थानैः प्रज्ञप्ताः मया अन्यैश्च ऋषभादिभिस्तीर्थकृद्भिः, अनेन आगमस्य कथंचिद् नित्यत्वमावेदितम्, हे श्रमण ! हे आयुष्मन् आमन्त्रणमिदं भगवत्प्रयुक्तं गौतमस्य ।
"
एवमप्कायिकसूत्राण्यपि बादरसूक्ष्मविषयाणि । नवरं पर्याप्तबादराप्कायिकसूत्रे 'सत्तसु घनोदहिवलएसुत्ति' सप्त धनोदधिवलयानि स्वस्वपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि । 'अहोलोए पायालेसुत्ति' पातालकलएसुत्ति' सप्त धनोदधिवलयानि स्वस्वपृथिवीपर्यन्तवेष्टकानि वलयाकाराणि 'अहोलोए पायालेसुत्ति' पातालकलशेषु वलयामुखभृतिषु, वलयामुखप्रभृतिषु तेष्वपि द्वितीये त्रिभागे देशतः, तृतीये त्रिभागे सर्वाला जलभावात् । भवनेषु कल्पेषु विमानेषु च जलं वाप्यादिषु, विमानादीनि चात्र कल्पगतानि वेदितव्यानि, ग्रैवेयकादिषु वापीनामसंभवतो जला संभवात् । अवटाः कूपाः । तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयः । ह्रदाः पद्मह्रदादयः । वाप्यश्चतुरस्रकाराः । ता एव वृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पद्मानि विद्यन्ते यासु ताः पुष्करिण्यः । दीर्घिका ऋजुलधनुद्यः ता एव वक्रा गुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानमि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपङ्कतया व्यवस्थितानि सरपङ्कितस्ता बह्वयः सरःपङ्कतयः । तथा येषु सरःसु पङ्क्तया व्यवस्तितेषु कूपोदकं प्रणालिकया संचरति सा सरःसरः पङ्कक्तः, ता बह्वयः सरःसरःपङ्कतयः । बिलानीव बिलानि स्वभावनिष्पन्ना जगत्यादिषु कूपिकास्तेषां पङ्कतयो बिलपङ्कतयः । उज्झरा गिरिष्वम्भसां प्रनवाः । ते एव सदावस्थायिनो निर्झराः । छिल्लराणिअखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्वलानि अखातानि सरांसि । वप्राः
। किं बहुना ?, सर्वेष्वेव जलाशयेषु, एतदेळ व्याचष्टे -- जलस्थानेषु । शेषभावना प्राग्वत्, अधुना बादरपर्याप्ततेजः कायिकस्थानानि पृच्छति - 'कहि णं भंते ! बादरतेउकाइयाणं' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमा ! ' इत्यादि, गौतम ! 'स्वस्थानेन' स्वस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे - मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्ध तृतीयं येषां ते अर्द्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्यार्द्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org