SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पदं-२, उद्देशकः-, द्वारग्रैवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवलिकाप्रविष्टेषु प्रैवयकादिविमानेषु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनांबादरपर्याप्तपृथ्वीकायिकानांस्थानपरिग्रहार्थं, तथातिर्यग्लोकेटङ्केषु०-छिन्नटङ्केषु कूटेषु-सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहींनपर्वतेषु शिखरिषु-शिखरयुक्तेषु पर्वतेषु प्राग्भारेषु-ईषत्कुनेषु विजयेषु-कच्छादिषुवक्षस्कारेषु-विद्युप्रभादिषुपर्वतेषु वर्षेषु-भरतादिषु वर्षधरेषु-हिमवदादिपर्वतेषु वेलासु-समुद्रादिपानीयरमणभूमिषु वेदिकासु-जम्बूद्वीपजगत्यादिसंबन्धिनीषुद्वारेषु-विजयादिषुतोरणेषु-द्वारादिसंबन्धिषु, किंबहुना?,सामस्त्येनसर्वेषु द्वीपेषसर्वेषुसमुद्रेषु, एत्थणं इत्यादि, अत्रैतेषुस्थानेषुबादरपृथ्वीकायिकानांपर्याप्तानां स्थानानि प्रज्ञप्तानिमयाअन्यैश्च तीर्थकृद्भिः, ‘उवधाएणं' इत्यादि उपपतनमुपपातः, बादरपृथ्वीकायिकानां पर्याप्तानां यदनन्तरमुक्तंस्थानं तप्राप्तयाभिमुख्यमिति भावः, तेनोपपातेन, उपपातमङ्गीकृत्येति भावः, लोकस्य-चतुर्दशर-ज्वात्मकस्यासंख्येये भागे, अत्रैके व्याचक्षते-ऋजुसूत्रनयो विचित्रः ततोयदापरिस्थूरऋजुसूत्रनय-दर्शनेन बादरपृथ्वीकायिकाः पर्याप्ताश्चिन्त्यन्तेतदाये स्वस्थानप्राप्ता आहारादिपर्याप्तिपरिसमाप्तया विशिष्टविपाकतोबादरपर्याप्तपृथ्वीकायिकायुर्वेदयन्तेतेएव द्रष्टव्याः, नापान्तरालगतावपि, तदानीं विपाकायुर्वेदनासंभवात्, स्वस्थानंचतेषां रत्नप्रभादिकंसमुदितमपिलोकस्यासंख्येयभागेवर्तते, ततउपपातेनापि लोकस्यासंख्येयभागता वेदितव्या, अन्ये त्वमिदधति-पर्याप्ता हि नाम बादरपृथ्वीकायिकाः सर्वस्तोकाः, ततस्तेऽपान्तरालगतावपिपरिगृह्यमाणालोकस्यासंख्येयभागेएवेतिन कश्चिद्दोषः,तथा च समुद्घातेनापि लोकस्यासंख्येयभागे एव वक्ष्यन्ते, अन्यथा समुद्घातावस्थायामपि स्वस्थानातिरेकेण क्षेत्रान्तरवर्तित्वसंभवादसंरख्येयभागवर्तितानोपपद्यते इति, तत्त्वंपुनः केवलिनो विदन्तिविशिष्टश्रुतविदोवा।तथा समुग्धाएणं० इति समुद्घातेन समुद्घातमधिकृत्य लोकस्यासंख्येयभागे, इयमत्र भावना-यदा बादरपर्याप्ताः पृथ्वीकायिकाः सोपक्रमायुषो निरुपक्रमायुषो वा त्रिभागाद्यवशेषायुषः पारभविकमायुर्बद्धा मारणान्तिकसमुद्घातेन समवहन्यन्ते तदा ते विक्षिप्तात्मप्रदेशदण्डाअपिलोकस्यासंख्येयतमे एव भागे वर्तन्ते, स्तोकत्वाद्, बादरपृथ्वीकायिकपर्याप्तायुश्चाधाप्यक्षीणमिति पर्याप्तबादरपृथ्वीकायिका अपिलभ्यन्ते। इह पूर्वं पृथ्व्यादिषु स्वस्थानमात्रमुक्तम्, इदानीं स्वस्थानेनानपि कियति लोकस्य भागे वर्तन्ते इति निरूपयति-‘सट्ठाणेणं लोगस्स असंखिज्जे भागे' इति, स्वस्थानं रत्नप्रभादि, तच्च समुदितमपिलोकस्यासंख्येयभागवर्ति, तथाहि-रत्नप्रभाअशीतियोजनसहस्राधिकलक्षणप्रमाणपिण्डभावा, एवं शेषाअपि पृथ्व्यः स्वस्वधनभावेन वक्तव्याः पातालकलशाअपि योजनलक्षावगाहा नरकावासाः त्रिसहस्रयोजनोच्छ्रयाः विमानान्यपि द्वात्रिंशद्योजनशतबाहल्यानि ततः सर्वेषामपि परिमितभावात् समुदितानामप्यसंख्येयभागवर्तितैवेति। बादरापर्याप्तपृथ्वीकायिकसूत्रे उववाएणंसव्वलोए समुग्घाएणंसव्वलोएइति, इहापर्याप्ता बादरपृथ्वीकायिका अपान्तरालगतावपि स्वस्थानेऽपि चापर्याप्तबादरपृथ्वीकायिकायुविशिष्टविपाकतो वेदयन्ततथा देवनैरयिकवर्जेभ्यः शेषसर्वकायेभ्यश्चोत्पद्यन्ते, उद्वृत्ता अपिच [10161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy