________________
८०
प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-1१९२ कहि णं भंते ! बायरतेउकाइयाणं अपज्जत्तगाणं ठाणा पं०, गोयमा ! जत्थेव बायरतेउकाइयाणं पज्जतगाणं ठाणा तत्थेव बायरतेउकाइयाणं अपज्जत्तगाणंठाणापं०, उववाएणं लोयस्सदोसुउड्डकवाडेसुतिरियलोयतट्टे यसमुग्धाएणंसव्वलोए सहाणेणंलोयस्सअसंखेजइभागे कहि णं भंते ! सुहुमतेउकाइयाणं पज्जत्तगाण य अपज्जत्तगाण य ठाणा प०?, गोयमा ! सुहुमतेउकाइआ जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा प० समणाउसो!।
वृ. 'कहिंति कस्मिन्, णंशब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वामन्त्रणे, बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानि-स्वस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमस्वामिना प्रश्ने कृते भगवानाह वर्धमानस्वामी-'गोयमा ! सट्ठाणेणं' इत्याति,
ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकरभाषितमातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्ववित्सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एवततः किमर्थं पृच्छति?,नहिचतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति, यत उक्तम्॥१॥ . “संखाईए वि भवे साहइजंवा परो उपुच्छेज्जा ।
नयणं अणाइसेसी वियाणई एस छउमत्थो॥" सत्यमेतत्, केवलं जानन्नेव गौतमस्वामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थं पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकरनिर्वचनरूपंसूत्रमतो भगवानार्यश्यामोऽपिइत्थमेव सूत्रंरचयति, अथवा संभवतितस्यापिगणभृतो गौतमस्वामिनोऽनाभोगः, छद्मस्थत्वात्, उक्तंच॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिद् नास्ति।
ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥" ततो जातसंशयः सन् पृच्छतीति न कश्चिद् दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामन्त्रणध्वनिः, हे गौतमगोत्रेति भावार्थः।
_ 'सहाणेणं' इति स्वस्थानं यत्रासते बादरपृथ्नवीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्स्वस्थानमिति भावः, स्वस्थानग्रहणमुपपातसमुद्घातस्थाननिवृत्त्यर्थं, तेन स्वस्थानेन स्वस्थानमङ्गीकृत्येति भावः । अष्टासु पृथ्वीषु सर्वत्र बादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः,ता एव अष्टौ पृथ्वीनामग्राहमाह-'तंजहा' इत्यादि रत्नप्रभायां यावदष्टम्यामीषत्प्राग्भारायाम, तथाऽधोलोके पातालेषु पातालकलशेषुवलयामुखप्रभृतिषुभवनेषु-भवनपतिनिकायावासरूपेषु, भवन-प्रस्तटेषु-भवनभूमिकारूपेषु, इहभवनग्रहणेन भवनानामेव केवलानां ग्रहणं, भवनप्रस्तटग्रहणेन तुभवनानामपान्तरालस्यापि
तथा नरकेषु-प्रकीर्णकरूपेषु नरकावासेषु, नरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेषु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊर्ध्वंलोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषुप--
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only