SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पदं - २, उद्देशक:-, द्वारं ८३ तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रा स्तेषु 'निर्व्याधातेन' व्याघातस्याभावो निव्याघातं तेन निव्याधातेन "वा तृतीयायाः" इति पाक्षिकोऽमादेशाभावः, व्याघाताभावेनेत्यर्थः, 'पञ्चदशसु कर्मभूमिषु' पञ्चभरतपञ्चैरावतपञ्चमहाविदेहरूपासु 'व्याघातं प्रतीत्य' व्याघाते सतीति भावः पञ्चसु महाविदेहेषु, इयमत्र भावना - व्याघातो नाम अतिस्निग्धोऽतिरूक्षो वा कालः, तस्मिन् सत्यग्निव्यवच्छेदात्, ततोयदा पञ्चसु भरतेषु पञ्चस्वैरावतेषु सुषमसुषमासुषमासुषमदुष्षमा वा वर्तते तदाऽतिस्निग्धः कालः दुष्षमदुष्षमायां चातिरूक्ष इत्यस्ति व्यवच्छेदः तस्मिन् सति पञ्चसु महाविदेहेषु, शेषकालं पञ्चदशस्वपिकर्मभूमिषु, 'एत्थ णं' इत्यादि, अत्र - एतेषु स्थानेषु बादरतेजः कायिकानां स्थानानि प्रज्ञप्तानि, 'उववाएणं' इत्यादि, ‘उपपातेन' यथोक्तस्थानप्राप्तयाऽऽभिमुख्येन, अपान्तरालगतावपीति भावः, चिन्त्यमाना लोकस्यासंख्येये भागे, स्तोकत्वात्, समुद्घातेनेनापि चिन्त्यमाना लोकस्यासंख्येये भागे, मारणान्तिकसमुद्घातवशतो विक्षिप्तात्मप्रदेशदण्डानामपि स्तोकतया लोकासंख्येयभागमात्रव्यापित्वात्, स्वस्थानेन लोकस्यासंख्येयभागे, मनुष्यक्षेत्रस्य पञ्चत्वारिंशदयोजनलक्षप्रमाणायामविष्कम्भतया लोकासंख्येयभागमात्रत्वात् । अपर्याप्तबादरतेजः कायिकस्थानानि पृच्छति - 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं गतार्थं, भगवानाह - 'गोयमा !' इत्यादि, गौतम ! यत्रैव बादरतेजः - कायिकानां पर्याप्तानां स्थानानि तत्रैव बादरतेजः कायिकानामपर्याप्तानामपि स्थानानि प्रज्ञप्तानि, पर्याप्तनिश्रयैवापर्याप्तानामवस्थानात्, 'उववाएणं लोगस्स दोसु उड्ढकवाडेसु तरियलोयतट्टे य' इति, इहार्धतृतीयद्वीपसमुद्रनिःसृते अर्द्धतृतीयद्वीपसमुद्रप्रमाणबाहल्ये पूर्वापरदिणोत्तरस्वयम्भूरमणपर्यन्ते ये कपाटे केवलिसमुद्घातकपाटवकत् ऊर्ध्वपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृष्टे ते ऊर्ध्वकपाटे तयोः ऊर्द्धकपाटयोः, तथा 'तिरियलोयतट्टे य' इति, तट्टं स्थालं तिर्यग्लोके तट्टमिव तिर्यग्लोकतट्टं तस्मिंश्च स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन बादरतेजः कायिकानामपर्याप्तानां स्थानानि प्रज्ञप्तानि, केचित् 'तिरियलोयतट्टे य' इत्येवं व्याचक्षते - तयोः - कपाटयोः स्थितः तिर्यग्लोकश्चासौ तत्स्थः, तयोरूर्ध्वकपाटयोरन्तवर्तितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ? - द्वयोरूर्ध्वकपाटयोर्यथोक्तस्वरूपयोस्तिर्यग्लोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोककव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात्, तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना - इह त्रिविधा बादरपर्याप्ततेजः कायिकाः, तद्यथा एकभविका बद्धायुषोऽभिमुखनामगोत्राश्च तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजःकायिकत्वेनोत्पत्स्यन्ते ते एकभविकाः, ये तु पूर्वभवत्रिभागादिसमयैर्बद्धबावरा पर्याप्ततेजः कायेायुपरते बद्धायुषः, ये पुनर्वादरापर्याप्ततेजः कायिकानुर्नामगोत्राणि पूर्वभव मोचनानिन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकभविका बद्धायुषश्च द्रव्यतो वादरापर्याप्ततेजः कायिका न भावतः, तदाऽऽयुरनागगोत्रवेदनाभावात्, ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रैः तेषामेवोपपातस्य स्वस्थानप्राप्तयाभिमुख्यलक्षणस्य लभ्यमानत्वात्, तत्र यद्यपि ऋजुसूत्रनयदर्शनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy