________________
७८
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१९१
भवाज्योतिष्काः “अध्यात्मादिभ्यः" इति इकण, तत “इवर्णोवर्णदोसिसुसः" इति इकण्आदेरिकारस्य लोपः,अनभिधानाच्च वृध्यभावः, यदिवा द्योतयन्ति-शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो-देवाः सूर्यादयः, तथाहि-सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नचन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तत्त्वार्थभाष्यकृत्-“द्योतयन्तीति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो-देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगृहिभिः प्रभामण्डलैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथास्वं चिलैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्ती"ति।
तथा विविध मान्यन्ते-उपभुज्यन्तेपुण्यवद्भिजीर्वैरितिविमानानि तेषुभवा वैमानिकाः
सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह-‘से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः, एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते?, उच्यते, कुमारवच्चेष्टनात्, तथाहि-कुमाराइवैते सुकुमारा मृदुमधुरललितगतयः श्रृङ्गाराभिप्रायकृतविशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति ॥
'किंनरा' इत्यादि किन्नरा दशविधाः,तद्यथा-किन्नराः किंपुरषाः किंपुरुषोत्तमाः किंनरोत्तमाः हृदयङ्गमा रूपशालिनः अनिन्दिताः मनोरमा रतिप्रिया रतिश्रेष्ठाः । किंपुरुषादशविधाः, तद्यथापुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा महादेवा मरुतः मेरुप्रभाः यशस्वन्तः।महोरगादशविधाः, तद्यथा-भुजगाभोगसालिनः महाकायाअतिकायाः स्कन्धशालिनो मनोरमा महावेगामहे(हा) यक्षा मेरुकान्ताभास्वन्तः ।गन्धर्वा द्वादशविधाः, हाहाः हहः तुम्बरवः नारदाःऋषिवादिकाभूतिवादिकाः कादम्बामहाकादम्बारैवताः विश्वावसवः गीतरतयःगीतयशसः
यक्षास्त्रयोदशविधाः, तद्यथा-पूर्णभद्रा माणिद्रां श्वेतभद्रा हरितभद्राः सुमनोभद्रा व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्यपक्षा वनाधिपतयः वनाहारा रूपयक्षा यक्षोत्तमाः। राक्षसाः सप्तविधाः, तद्यथा-भीमा महाभीमा विघ्ना विनायकाजलराक्षसा राक्षसराक्षसाब्रह्मराक्षसाः भूता नवविधाः, तद्यथा-सुरूपाः प्रतिरूपा अतिरकूपा भूतोत्तमाः स्कन्दो महास्कन्दा महावेगाः प्रतिच्छन्ना आकाशगाः। पिशाचाः षोडशविधाः, तद्यथा-कूष्माण्डाः पटकाः सुजाषा आह्निकाः काला महा-कालाः चोक्षाअचोक्षाः तालपिशाचामुखरपिशाचाअधस्तारका देहाविदेहा महादेहाः तूष्णीका वनपिशाचा इति । 'कप्पोवगा कप्पाईय'त्ति कल्पः-आचारः सचेह इन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपः तमुपगाः प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीताः- अतिक्रान्ताः कल्पातीताः-अधस्तनाधस्तनप्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्राः, ततो भवन्ति कल्पातीताः । कल्पोपगान् दर्शयति- सोहम्मा ईसाणा' इत्यादि, सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन ईशानाः एवं सर्वत्रापि भावनीयं, भवति च तात्स्थ्यात् तद्व्यपदेशः, यथा ‘पञ्चालदेशनिवासिनः पञ्चाला इति।'
पदं-१ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे प्रथम पदस्य मलयगिरि (आचार्येण) विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org