SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७५ - - - - पदं-१, उद्देशकः-, द्वारउत्कृष्टतो वा शतशः, पुरुषगणनया जघन्यतः प्रपितद्यमानाः सप्तविंशतिः उत्कर्षतः सहस्र, पूर्वप्रतिपन्नकाः पुनर्जघन्यतः शतशः उत्कर्षतः सहस्रशः, आह च॥१॥ "गणओ तिन्नेव गणा जहन्न पडिवत्ति सहस उक्कोसा। उक्कोस जहन्नेणं सयसोच्चिय पुव्वपडिवन्ना ।। ॥२॥ सत्तावीस जहन्ना सहस्समुक्कोसओय पडिवत्ती। सयसो सहस्ससो वा पडिवन्न जहन्नउक्कोसा।" अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्यादेको निर्गच्छतिअन्यः प्रविशतितदोनप्रक्षेपे प्रतिपत्तौ कदाचिदेकोऽपि भवति पृथकत्वं वा पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकः प्राप्यते पृथकत्वं वा, उक्तंच॥१॥ “पडिवजमाणा भयणाए होज एक्कोऽवि ऊणपक्खेवे। पुव्वपडिवन्नयावि य भइआ एक्को पुहुत्तं वा ॥" १२ । अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः, तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाः भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चच्यन्ते, तत्र परिहानविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उक्तंच - ॥१॥ “दव्वाईअभिग्गह विचित्तरूवा न होति पुण केइ। एअस्स जीअकप्पो कप्पोच्चियऽभिग्गहो जेणं ।। ॥२॥ एयंमि गोयराई निन्या नियमेण निरववादा य। . तप्पालणं चिय परं एअस्स विसुद्धिठाणं तु॥" १३। प्रव्रज्याद्वारे-नासावन्यं प्रव्रजयति, कल्पस्थितिरेषेतिकृत्वा, आह च-“पव्वावेइन एसो अन्नंकप्पट्टिइत्ति काउणं" इति, उपदेशंपुनर्यथवक्तिप्रयच्छति १४ । मुण्डापनद्वारेऽपिनासावन्यं मुण्डयति, अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्या-ग्रहणेनैव तद् गृहीतमिति किमर्थं पृथग्द्वारं?, तयुक्तं, प्रव्रज्याद्वारे नियमतो मुण्डनस्यासंभवात्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायांपुनरयोग्यतापरिज्ञाने मुण्डनायोगात्, अतः पृथगिदं द्वारमिति १५। प्रायश्चित्तविधिदृष्टं-मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानः, ततस्तदूभङ्गे गुरुतरो दोष इति १६। कारणद्वारे-तथा कारणं नामालम्बनं तत्पुनः सुपरिशुद्धं ज्ञानादिकं तच्चास्य न विद्यते येन तदाश्रित्यापवादसेविता स्यात्, एष हि सर्वत्र निरपेक्षश्रः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथाक्तविधिना समापयन् महात्मा वर्तते, उक्तंच॥१॥ "कारणमलंबणमोतं पुण नाणाइअं सुपरिसुद्धं । एअस्सतं न विज्जइ उचियं तवसाहणो पायं ॥ ॥२॥ सव्वकत्थ निरवयक्खो आढत्तं चिय दढं समाणंतो। वट्ठइ एस महप्पाविलिचट्ठकम्मक्खयनिमित्तं ।।" १७। निष्प्रतिकर्मताद्वारे-एषमहात्मा निष्प्रतिकर्मशरीरः अक्षिमलादिकमपि सदाचिन्नापनयति, नच प्राणान्तिकेऽपि समापतिते व्यसने द्वितीयं पदं सेवते, उक्तंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy