SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ७३ पदं-१, उद्देशकः-, द्वार नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न संभवन्ति, महाविदेहक्षेत्रे तेषामसंभवात् । चारित्रद्वारे-संयमस्थानद्धारेण मार्गणा, तत्र सामायिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समापरिणामत्वात्, ततोऽसंख्येयलोका-काशप्रदेशप्रमाणनि संयमस्थानान्यतिक्रम्योर्ध्वंयानि संयमस्थानानि तानि परिहारविशुद्धिक- योग्यानि, तान्यपि च केवलिप्रज्ञया परिभाव्यमानानि असंख्येयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीनि, तेष्वपि संभवात्, तत ऊध्वं यानि संख्यातीतानि संयमस्थानानि तानि सूक्ष्मसंपराययथाख्यतचारित्रयोग्यानि, उक्तंच॥१॥ "तुल्ला जहन्नठाणे संजमठाणाणि पढमबिइयाणं । तत्तो असंखलोए गंतुं परिहारियट्ठाण ॥ ॥२॥ . तेऽवि असंखा लोगा अविरुद्धा चेवपढमबिइयाणं । उपरिपितउ असंखा संजमठाणा उ दोण्हंपि।।" तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु, यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिकल्पसमाप्तयनन्तरमन्येष्वपि चारित्रेषु संभवात, तेष्वपि च वर्तमानस्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात्, उक्तंच॥१॥ “सट्ठाणे पडिवत्ती अन्नेसुवि होज पुव्वपडिवन्नो। तेसुवि वर्सेतो सो तीतनयं पप्प वुच्चति उ ॥३। तीर्थद्वारेपरिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमाने एव सति भवति, न तच्छेदेनानुत्पत्त्यां वा तदभावे जातिस्मरणादिना, उक्तंच॥१॥ "तित्थति नियमतोच्चतिय होइ स तित्थंमि न उण तदभावे । विगएऽणुप्पन्ने वा जाइसरणाइएहिंतो।।४। पर्यायद्वारे-पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा-जघन्यत उत्कतृष्टश्च, तत्र गृहस्थपर्यायो जघन्यत एकोनत्रिंशद् वर्षाणि, यतिपर्यायो विंशतिः, द्वावपिच उत्कर्षतो देशोनपूर्वकोटिप्रमाणौ, उक्तंच॥१॥ “एयस्स एस नेओ गिहिपज्जओ जहन्निगुणतीसा। जइपज्जाओ वीसा दोसुवि उक्कोस देसूणा ।।५। आगमद्वारे-अपूर्वमागमंसनाधीते, यस्मात्तंकल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पर्वाधीतं तु विनतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनाः सम्यक् प्रायेणानुस्मरति, आह च॥१॥ “अप्पुववं नाहिज्जइ आगममेसो पडुच्च तं कप्पं । जमुचियपगहिअजोगाराहणओ चेव कयकिच्चो ।। ॥२॥ __पुव्वाहीयं तु तयं पायमनुसरइ निच्चमेवेस । एगग्गमणो सम्मं विस्सोयसिगाइखयहेऊ ॥६। वेदद्वारे-प्रवृत्तिकाले वेदतः पुरुष वेदो वा भवेत् नपुंसकवेदो वा, न स्त्रीवेदः, स्त्रियाः For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy