________________
पदं-१, उद्देशक:-, द्वारं
५३
यहुत्तयावि जोयणसहस्संपि, ते णं थले जाता जलेऽवि चरंति थलेऽवि चरन्ति, ते नत्थि इहं, बाहिरएसु दीवेसु समुद्दएसु हवंति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा ।
- ते समासओ दुविहा पं० तं० - संमुच्छिमा य गब्भवकंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते णं तिविहा पं०, तं० - इत्थी पुरिसगा नपुंसगा एएसिणं एवमाइयाणं पज्जत्तापज्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवतीतिमखायं, सेत्तं उरपरिसप्पा ।
से किं तं भुयपरिसप्पा ?, भुयपरिसप्पा अणेगविहा पं० तं०- नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पाइया, जे यावन्ने तहप्पगारा, ते समासओ दुविहा पं० तं९ - संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते णं तिविहा पं० तं० - इत्थी पुरिसा नपुंसगा। एएसिणं एवमाइयाणं पज्जत्तापजत्ताणं भुयपरिसप्पाणं नव जाइकुलकोडिजोणियपमुहसयसहस्सा भवन्तीति मक्खायं, सेत्तं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, सेत्तं परिसप्पथलयरपंचिदियतिरिक्खजोणिया ।
वृ. अथ के ते परितपस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः ?, सूरिराह - परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाः - द्विप्रकाराः प्रज्ञप्ताः, तद्यथा - 'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरः परिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः उरः परिसर्पस्थलचलरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः ते च ते स्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः, चशब्दी प्रत्येकं स्वगतानेकभेदसूचकी, तत्रोरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकभेदानुपदिदर्शयिषुरिदमाह - 'से किं तं उरपरिसप्प' इत्यादि, अथ के ते उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः सूरिराह - उरः परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः - अहयोऽजगरा आसालिगा महोरगाः ।
एतेषामेव भेदानामवगमाय प्रश्ननिर्वचनसूत्राण्याह- 'से किं तं' इत्यादि, अथ के तेऽहयः गुरुराह - अहयो द्विविधाः प्रज्ञप्ताः, तद्यथा - दर्वीकराश्च मुकुलिनश्च, तत्र दर्वीव दर्वी-फणा तत्करणशीला दर्वीकराः, मुकुलं- फणाविरहयोग्या शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिनः, फणाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दौ स्वगतानेकभेदसूचकौ ।
तत्र दर्वीकरभेदानभिधित्सुराह - 'से किं तं' इत्यादि, आश्यो- दंष्ट्राः तासु विषय येषां ते आशीविषाः, उक्तं च-‘“आसी दाढा तग्गयविसा य आसीविसा मुणेयव्वा" इति दृष्टौ विषं येषां ते दृष्टिविषाः उग्रं विषं येषां ते उग्रविषाः भोगः-शरीरं तत्र विषं येशां ते भोगविषाः त्वचि विषं येषां ते त्वग्विषाः लाला - मुखात् स्रवः तत्र विषं येषां ते लालाविषाः निःश्वासे विषं येषां ते निःश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रतिपत्तव्याः, उपसंहारमाह- 'सेत्तं दव्वीकरा' मुकुलिनः प्रतिपिपादयिषुरिदमाह - 'से किंतं' इत्यादि, एतेऽपि लोकतो ऽवसेयाः ।
अजगराणामवान्तरजातिभेदा न विद्यन्ते तत उक्तम् - एकाकार अजगराः प्रज्ञप्ताः । आसालिगामभिधित्सुराह - 'से किं तं आसालिया' अथ का सा आसालिगा ?, एवं शिष्येण प्रश्ने कृते सति भगवान् आर्यश्यामो यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादकं गौतमप्रश्नभगवन्निर्वचनरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org