________________
प्रज्ञापनाउपाङ्गसूत्रं-9-91-1-1१६२ सूत्रमस्ति तदेवागमबहुमानतः पठति-'कहिणं भंते!' इत्यादि, क्व 'ण' इति वाक्यालङ्कारे भदन्त!-परमकल्याणयोगिन्! आसालिगा संमूर्च्छति?,एषा हि गर्भजा न भवति किन्तुसंमूर्छिमैव तत उक्तं संमूर्च्छति, भगवानाह-गौतम ! अन्तः-मध्ये मनुष्य-क्षेत्रे-मनुष्यक्षेत्रस्य न बहिः,
एतावता मनुष्यक्षेत्राद् बहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्वर्द्धतृतीयेषु द्वीपेषु अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः, समुदायःसमासार्थः, तेषु, एतावता लवणसमुद्रे कालोदसमुद्रे वा न भवतीत्यावेदितमित्यर्थः 'निव्वाधाएणं' इत्यादि, निर्व्याधातेन-व्याघातस्याभावो निव्याघातं तेन यदि पञ्चसुभरतेषु पञ्चसु ऐरवतेषु सुषमसुषमादिरूपो दुष्षमदुष्षमादिरूपश्च कालो व्याघाततहेतुत्वा व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषुसंमूर्चछति, व्याघातं प्रतीत्य, किमुक्तं भवति?
.. यदि पञ्चसु भरतेषु पञ्चस्वैरवतेषु यथोक्तरूपोव्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायते इति प्रतिपादितम्, पञ्चदशसु कर्मभूमिषु पञ्चसुवामहाविदेहेषुनसर्वत्रसंमूर्च्छति, किन्तुचक्रवर्तिस्कन्धावारेषु, वाशब्दःसर्वत्रापि विकल्पार्थो द्रष्टव्यः, बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु, माण्डलिकः-सामान्यराजाऽल्पर्धिकः, महामाण्डलिकः स एवानेकदेशाधिपतिः तत्स्कन्धावारेषु, 'गामनिवेसेसु' इत्यादि,
ग्रसति बुद्धयादीन् गुणानिति ग्रामः, यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशकराणामिति ग्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारविबद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कर्बटम्, अर्द्धतृतीयगव्यूतान्तामान्तररहितंमडम्बम्, ‘पट्टणत्ति' पट्टनं पत्तनंवा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात्, तत्र यन्नौभिरेव गम्यं तत् पट्टनं, यत्पुनर्शकटैधौटकैनौभिर्वा गम्यं तत् पत्तनं, यथा भृगुकच्छं, उक्तंच॥१॥ “पत्तनं शकटैगम्यं, घोटकैनौभिरेव च।
नौभिरेव तु यद् गम्यं, पट्टनं तप्रचक्षते॥" द्रोणमुखं-बाहुल्येनजलनिर्गमप्रवेशम्, आकरो हिरण्याकरादिः, आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधोयात्रासमागतप्रभूतजननिवेशः, राजधानी-राज़ाधिष्ठानं नगरं।
“एएसिणं' इत्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु एत्थणंति' एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेषु आसालिका संमूर्च्छति, सा च जघन्यतोऽङ्गुलासंख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीतियोगः, एतच्चोत्पादप्रथमसमयेवेदितव्यं, उत्कर्षतोद्वादश योजनानि, तदनुरूपं-द्वादशयोजनप्रमाणदैध्यानुरूपं 'विक्खंभबाहल्लेणं' ति विष्कम्भश्च बाहल्यं च विष्कम्भबाहल्यं समाहारो द्वन्द्वः तेन, विष्कम्भो-विस्तारः बाहल्यं-स्थूलता, भूमी 'दालित्ता णं' विदार्य समुपतिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते इति भावः, सा चासंज्ञिनी-अमनस्का, संमूर्छिमत्वात्, मिथ्यादृष्टिः,सास्वादनसम्यकत्वस्यापितस्या (अ)संभवात्, अत एवाज्ञानिनी अन्तर्मुहूर्तायुरेव कालं करोति, तदेवं ग्रन्थान्तर्गतं सूत्रं पठित्वा सूत्रकृत् सम्प्रति उपसंहारमाह-'सेत्तं आसालिया' ।
लसम्प्रति महोरगानभिधिसुराह- ‘से किं तं' इत्यादि सुगम, नवरं वितस्तिदिशाङ्गुलप्रमाणा, रलिहस्तः, कुक्षिर्द्विहस्तमानः, धनुश्चतुर्हस्तं, गव्यतंद्विधनुःसहनप्रमाणं, चत्वारि गव्यतानि
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only