SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशक:-, द्वारं मू. (१५३) किण्हपत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुकिल्लपत्ता चित्तपक्खा विचित्तपक्खा ओहंजलिया जलचारिया गंभीरा णीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा दोला भमरा भरिली जरुला तोट्टा विंछुया पत्तविच्छुया छाणविच्छुया जलविच्छुया पियंगाला कणगा गोमयकीडा, जे यावन्ने तहप्पगारा, सव्वे ते संमुच्छिमा नपुंसंगा, ते समासओ दुविहा पन्नत्ता, तं० - पजत्तगाय अपज्जत्तगा य, एएसिणं एवमाइयाणं चउरिदियाणं पज्जत्तापञ्जत्ताणं नव जाइकुलकोडिजोणिप्पमुहसयसहस्साइं भवतीतिमक्खायं, से तं चउरिंदियसंसारसमावन्नजीवपन्नवणा ॥ वृ. एतेऽपि चतुरिन्द्रिया लोकतः प्रत्येतव्याः, एतेषां च पर्याप्तापर्याप्तानां सर्वसङ्ख्यया जातिकुलकोटीनां नव लक्षा भवन्ति, शेषा अक्षरगमनिका प्राग्वत्, उपसंहारमाह- 'सेत्त' मित्यादि उक्ता चतुरिन्द्रियसंसारसमापन्नजीवप्रज्ञापना, सम्प्रति पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापनामाह मू. (१५४) से किं तं पंचेदियसंसारसमावन्त्रजीवपन्नवणा ?, २ चउव्विहा पं०, तं० - नेरइयपंचिंदियसंसारसमावन्नजीवपन्नवणा, तिरिक्खजोणियपंचिंदियसंरसमावन्नजीवपन्नवणा मणुस्सपंचिंदियसंसारसमावन्नदजीवपन्नवणा देवपंचिंदियसंसारसमावन्नजीवपन्नवणा । वृ. अथ का सा पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह - पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा - 'नैरयिके' त्यादि, अयम्-इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया - नरकावासास्तेषु भवा नैरयिकास्ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च नैरयिकपञ्चेन्द्रियसंसारसमापन्नजीवास्तेषां प्रज्ञापना, तथा 'अञ्च गतौ' तिरोऽञ्चन्तीति तिर्यञ्चः, 'तिरसस्तिर्यतीति' तिरसस्तिर्यादेशः, तेषां योनिः - उत्पत्तिस्थानं तिर्यग्योनिस्तत्र भवास्तैय्योर्निकास्ते च ते पञ्चेन्द्रियसंसासरसमापन्नजीवाश्च तेषां प्रज्ञापना तैर्यग्योनिकपञ्चेन्द्रियसंसार समापन्नजीवप्रज्ञापना, तथा मनुशब्दो मनुष्यवाची यथा राजशब्दो राज्यन्याभिधायक, मनोरपत्यानि मनुष्याः, ‘मनोर्यङ्गौ यश्चेति’ यः प्रत्ययः षकारश्चागमः, अयंचयः प्रत्ययो जाताविति मनुष्यशब्दो जातिवाची राजन्यशब्दवत्, ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना मनुष्यपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा दीव्यन्ति - स्वेच्छया क्रीडन्तीति देवाः भवनपत्यादयः ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ।। ४९ तत्र नैरयिकप्रतिपादनार्थं प्रश्ननिर्वचनसूत्रे आह मू. (१५५) से किं तं नेरइया ?, नेरइया सत्तविहा पन्नत्ता तं० - रयणप्पभापुढविनेरइया १ सक्करप्पभापुढविनेरइया २ वालुयप्पभापुढविनेरइया ३ पंकप्पभापुढविनेरइया ४ धूमप्पभापुढविनेरइया ५ तमप्पभापुढविनेरइया ६ तमतमप्पभापुढविनेरइया ७, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगा य अपजत्तगा य, से तं नेरइया ॥ वृ. सप्तविधत्वं नैरयिकाणां पृथिवीभेदेन अन्यथा प्रभूतभेदत्वमपि घटते, ततः पृथिवीभेदत एव सप्तविधत्वं तद्यथेत्यादिनोपदर्शयति- रत्नानि वज्रवैडूर्यादीनि, प्रभाशब्दोऽत्र सर्वत्रापि स्वभाववाची रत्नानि प्रभा - स्वरूपं यस्याः सा रत्नप्रभा - रत्नबहुला रत्नमयीति भावार्थ:, सा 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy