________________
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१४९ पर्याप्तकाश्चअपर्याप्तकाश्च, चशब्दौयोनिकुलभेदेन स्वगतानेकभेदसूचकौ, एतेषांद्वीन्द्रियाणामेवमादीनां पुलाकृम्यादीनां द्वीन्द्रियाणां पर्याप्तपर्याप्तादीनां सर्वसङ्घयया सर्वजातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवहाणि योनिशतसहस्राणिभवन्ति, सप्तजातिकुलकोटिलक्षा भवन्तिति भावः, इत्याख्यातं तीर्थकृभिः, मकारोऽलाक्षणिकः, इयमत्र भावना-इह जातिकुलयोनीनां परिज्ञानार्थमिदंपरिस्थूरमुदाहरणंपूर्वाचर्यैरुपदर्शितम्, तद्यथा-जातिरितिकिलतिर्यग्गतिः तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि
एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, यथा छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकंपदम्, जातिकुलयोन्योश्च परस्परंविशेषः, एकस्यामपि योनौ अनेकजातिकुलसम्भवात्, यथा एकस्यामेव योनौ कृमिजातिकुलं कीटकजातिकुलं वृश्चिकजातिकुलमित्यादि, एवंचएकसल्यामेवयोनाववान्तरजातिभेदभावादनेकानियोनिप्रवहाणि जातिकुलानि सम्भवन्तीत्युपपद्यन्ते, द्वीन्द्रियाणां सप्त जातिकुलकोटीनां शतसहस्राणाम्, उपसंहारमाह-'सेत्त' मित्यादि, सैषा द्वीन्द्रियसंसारसमापन्नजीवप्रज्ञापना।
सम्प्रति त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापनार्थमाह
मू. (१५०) से किंतंतेइंदियसंसारसमावनजीवपन्नवणा?, तेइंदियसंसारसमावनजीवपन्नवणा अनेगविहा पन्नत्ता, तं-ओवइया रोहिणिया कुंयू पिपीलिया उददंसगा उद्देहिया उक्कलिया उप्पाया उप्पडातणहाराकट्ठहारामालुया पत्ताहारातणबेटियापत्तबेटियापुप्फबेंटिया फलबेटिया बीयबेटिया तेबुरणमिंजिया तओसिमिंजिया कप्पासटिमिंजिया हिल्लियाझिल्लियाझिंगिरा किंगिरिडा बाहुया लहुया सुभगा सोवत्थिया सुयबेंटा इंदकाइया इंदगोवया तुरुतुंबगा कुच्छलवाहगा जूया हालाहला पिसुया सयवाइया गोम्ही हत्थिसोंडा, .. जेयावन्नेतहप्पगारा, सव्वेते संमुच्छिमा नपुंसगा तेसमासओदुविहापन्नत्ता, तं०-पज्जत्तगा यअपजत्तगाय, एएसिणंएवमाइयाणं तेइंदियाणंपजत्तापज्जत्ताणंअट्ठजाइकुललोडिजोणिप्पमुहसयसहस्सा भवंतीतिमक्खायं, सेत्तं तेइंदियसंसारसमावनजीवपन्नवणा।
'अथ का सा त्रीन्द्रियसंसारसमापनजीवप्रज्ञाना ?, भगवानाह-त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञाना अनेकविधा प्रज्ञप्ता, तामेव तद्यथेत्यादिनोपदर्शयति, एते च औपयिकप्रभृतयस्त्रीन्द्रिया देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्ही-कर्णसियालिया 'जे यावन्ने तहप्पगारा' येऽपि चान्ये तथाप्रकारास्ते सर्वेत्रीन्द्रिया ज्ञातव्या इतिशेषः, सव्वे 'ते संमुच्छिमानपुंसका' इत्यादि पूर्ववत्, ‘एतेसिण'मित्यादि, एतेषां-त्रीन्द्रियाणामेवमादिकानाम्-औपयिकप्रभृतीनांपर्याप्तापर्याप्तानां सर्वसङ्ख्यया अष्टौजातिकुलकोटीनांयोनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कुलकोटिलक्षा भवन्तीति भावः, इत्याख्यातं तीर्थकृभिः, उपसंहारमाह-'सेत्त'मित्यादि । तदेवमुक्ता त्रीन्द्रिय संसारसमापन्नजीवप्रज्ञापना, सम्प्रति चतुरिन्द्रियसंसारसमापन्न-जीवप्रज्ञापनामाह
मू. (१५१) से किंतं चउरिदियसंसारसमावन्नजीवपन्नवणा?, २ अनेगविहापं०, तं०मू. (१५२) अंधिय पत्तिय मच्छिय मसगा कीडे तहा पयंगे य।
ढंकुण कुक्कड कुक्कुह नंदावते य सिंगिरडे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org