________________
पदं-१, उद्देशकः-, द्वारं
४७
नन्ताः, प्रत्येकतरवः सङ्खयेया असङ्खयेया वा, साधारणास्तु नियमादनन्ता इति भावः।
"एतेषां साधारणप्रत्येकतरुरूपाणांवनस्पतिविशेषाणां वक्ष्यमाणानामिमाः-विशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः-प्रतिपत्तव्याः, ता एवाह-'तंजहा' तद्यथामू. (१४५) कंदा य कंदमूला य, रुक्खमूला इयावरे ।
गुच्छा य गुम्मवल्ली य, वेणुयाणि तणाणि य॥ वृ. 'कंदाये'त्यादि गाथात्रयं 'कन्दाः' सूरणकन्दादयः कन्दमूलानिवृक्षमूलानि चसाधारणवनस्पतिविशेषाः ‘गुच्छा' गुल्मा, वल्लयश्च प्रतीताः 'वेणुका' वंशास्तृणानिअर्जुनादीनि । मू. (१४६) पउमुप्पल संघाडे हढे य सेवाल किन्नए पनए।
अवए य कच्छभाणी कंदुक्केगूणवीसइमे ॥ वृ. पद्तमोत्पलश्रृङ्गाटकानि प्रतीतानि 'हढो' जलजवनस्पतिविशेषः सेवालः-प्रसिद्धः कृष्णकपनकावककच्छभाणिकन्दुकाः-साधारणवनस्पतिविशेषाः । मू. (१४७) तय छल्लि पवालेसु य पत्तपुप्फफलेसुय।
मूलग्गमज्झबीएसु, जोणी कस्सवि कित्तिया॥ वृ. एतेषामेकोनविंशतिसभङ्ख्यानां त्वगादिषुमध्ये कस्यापिकापियोनिः, किमुक्तं भवति कस्यापित्वक्योनिः कस्यापि छल्ली यावत्कस्यापिमूलं कस्याप्यग्रंकस्यापि मध्यंकस्यापिबीजमिति
मू. (१४८) से तं साहरणसरीरवणस्सइकाइया से तं बायरवणस्सइकाइया, से तं वणस्सइकाइया, सेत्तं एगिंदिया॥
वृ. 'सेत्त' मित्यादि निगमनचतुष्टयं सुगमं ॥ तदेनमुक्ता एकेन्द्रिययाः, सम्प्रति द्वीन्द्रियप्रतिपादनार्थमाह
मू. (१४९) से किं तं बेइंदिया?, बेइंदिया अनेगविहा पन्नत्ता, तंजहा-पुलाकिमिया कुच्छिकिमियागंडूयलगागोलोमाणेउरा सोमंगलगा वंसीमुहा सूइमुहागोजलोयाजलोयाजालाउया संखा संखणगाधुल्लाखुल्ला गुलया खंधावराडासोत्तियामुत्तिया कलुयावासा एगओवत्तादुहओवत्ता नंदियावत्ता संबुक्का माइवाहा सिप्पिसंपुडा चंदना समुद्दलिक्खा, ।
-जे यावन्ने तहप्पगारा, सव्वे ते संमुच्छिमा नपुंसगा, ते समासओ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपज्जत्तगा य, एएसिणं एवमाइयाणं बेइंदियाणं पज्जत्तापज्जत्ताणं सत्त जाइकुलकोडिजोणीपमुहसयसहस्सा भवंतीति मक्खायं । सेत्तं बेइंदियसंसारसमावन्नजीवप०।
वृ.अथ केतेद्विन्द्रियाः?,सूरिराह-द्विन्द्रिया अनेकविधाःप्रज्ञप्ताः, तद्यथा-'पुलाकिमिया' इत्यादि, पुलाकिमिया नाम पायुप्रदेशोत्पन्नाः कृमयः कुक्षिकृमयः-कुक्षिप्रदेशोत्पन्नाः शङ्खाःसमुद्रोद्भवाः प्रतीताः शङ्खनकाः त एव लघवःधुल्लाः-धुल्लिकाः खुल्ला-लघवः शङ्खाः-सामुद्रशवाकाराः वराटा:-कपर्दकाः 'सिप्पिसंपुड'त्ति संपुटरूपाः शुक्तयः चन्दनका-अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, 'जे यावन्ने तहप्पगारा' इति येऽपिचान्ये तथाप्रकारा-एवंप्रकारा मृतककडेवर- सम्भूतकृम्यादयस्ते सर्वे द्वीन्द्रिया ज्ञातव्याः, ते संमुर्छिमत्वादेव च नपुंसकाः, संमुर्छिमानामवश्यं नपुंसकत्वात् 'नारकसंमुर्छिमा नपुंसका' इतिवचनात्, 'ते समासओ' इत्यादि, ते द्वीन्द्रियाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org