________________
४६
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१३९
इत्यत आह- 'दीसंती' त्यादि, दृश्यन्ते शरीराणि निगोदजीवानांबादरनिगोदजीवानां अनन्तानां न तु सूक्ष्मनिगोदजीवानां तेषां शरीराणमनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात् तथासूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते - निगोदरूपशरीरं नियमादनन्त जीवपरिणामाविर्भावितं भवति ?, उच्यते - जिनवचनात्, तच्चेदम् "गोला य असंखेज्जा होंति निगोया असंखया गोले । एक्क्को य निगोओ अनंतजीवो मुणेयव्वो ।।" लोगागासपएसे निगोयजीवं ठवेहि इक्किक्कं । एवं मविजमाणा हवंति लोगा अनंता उ ॥
॥ १ ॥
मू. (१४०)
वृ. सम्प्रति एतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् आकाशप्रदेशे एकैकजीवरचनया मीयमानः 'अनन्तलोका' अनन्तलोकाकाशप्रमाणा निगोदजीवा भवन्ति ॥
मू. (१४१)
लोगागासपएसे परित्तजीवं ठवेहि इक्किक्कं ।
एवं मविजमाणा हवंति लोगा असंखिज्जा ।।
वृ. सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाह-एकैकस्मिन् लोकाकाशप्रदेशे एकैकं प्रत्येकवनस्पतिजीवं स्थापय, एवमुक्तप्रकारेण मीयमानाः प्रत्येकतरुजीवा असङ्घयेयलोकाकाशप्रदेशप्रमाणा भवन्ति । मू. (१४२)
पत्तेया पज्जत्ता परस्स असंखभागमित्ता उ । लोगाऽसंखा पजत्तयाण साहारणमनंता ।।
वृ. सम्प्रति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्पतिजीवानां प्रमाणमाह-पर्याप्ताः प्रत्येक वनस्पतिजीवाः घनीकृतस्य सम्बन्धिनः प्रतरस्य असङ्ख्येयतमे भागे यावन्त आकाशप्रदेशास्तावप्रमाणा भवन्ति, अपर्याप्तानां पुनः प्रत्येकरुजीवानामसङ्घयेया लोकाः परिमाणं, पर्याप्तानां अपर्याप्तानां च साधारणजीवानां अनन्तलोकाः, किमुक्तं भवति ? - असङ्घयेयलोकाकाशप्रदेशप्रमाणा अपर्याप्ताः प्रत्येकतरवः, अनन्तलोकाकाशप्रदेशप्रमाणाः पर्याप्ता अपर्याप्ताश्च साधारजीवा इति ॥ मू. (१४३)
एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा । सुहुमा आणागिज्झा चक्खुप्फासां न ते इति ।।
मू. (१४४) जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता, तं०-पजत्तगाय अपजत्तगा य, तत्थ णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा तेसिणं वन्नाएसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई, संखिज्जाई जोणिप्पमुहसयसहस्साईं, पजत्तगनीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ सिय संखिज्जा सिय असंखिज्जा सिय अनंता ।। एएसिणं इमाओ गाहाओ अनुगंतव्वाओ, तंजहा
वृ. 'जे यावन्ने तहप्पगारा' इति, , येऽपि चान्ये- अनुक्तरूपास्तथाप्रकाराः - प्रत्येकतरुरूपा साधारणरूपाश्च तेऽपि वनस्पतिकायत्वेन प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत्, नवरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रया अपर्याप्ताः कदाचित् सङ्ख्येयाः, कदाचितदसङ्घयेया कदाचिद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org