SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पदं-१, उद्देशकः-, द्वार ४५ प्रत्येकशरीरत्वमपि भवति?,तत आह-'सव्वोऽवी'त्यादि, इह सर्वशब्दोऽपरिशेषवाची,सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणोवा किसलयावस्थामुपगतः सन्अनन्तकायस्तीर्थकरणधरैर्भणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धिं गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?, उच्यते, यदि साधारणं शरीरं निर्वत्त्यते तदा साधारण एव भवति, अथ प्रत्येकशरीरं ततः प्रत्येक इति, कियतः कालादूध्वं प्रत्येको भवति इति चेत्, उच्यते अन्तर्मुहूर्तात्, तथाहिनिगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्तकालं यावस्थितिरुक्ताततोऽन्तर्मुहूर्तात्परतोविवर्द्धमानः प्रत्येको भवतीति ।। समप्रति साधारणलक्षणमाहमू. (१३५) समयं वक्वंताणं समयं तेसिं सरीरनिव्वत्ती। समयं आणुग्गहणं समयं ऊसासनीसासो॥ वृ.'समय' युगपद्व्युत्क्रान्तानां-उत्पन्नानांसतां तेषां साधारणजीवानांसमकम्-एककालं शरीरनिर्वृत्तिर्भवति, समकं च प्राणापानग्रहणं-प्राणापानयोग्यपुद्गलोपादानम् ततः समकम्-एककालं तदुत्तरकालभाविनावुच्छ्वासनिःश्वासौ । मू. (१३६) इक्कस्स उजंगहणं बहूण साहारणाणतंचेव। जंबहुयाणं गहणं समासओ तंपि इक्कस्स ॥ वृ.तथा एकस्ययत्आहारादिपुद्गलानांग्रहणंतदेवबहूनामपि साधारणजीवानामवसेयं, किमुक्तं भवति?-यत् आहारादिकमेको गृह्णह्वति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद्बहूनां ग्रहणं तत्संक्षेपादेकत्र शरीरे समावेशात् एकस्यापि ग्रहणम् । मू. (१३७) साहारणमाहारो साहारणमानुपानगहणं च । .. साहारणजीवाणं साहारणलक्खणं एवं ॥ वृ.सम्प्रत्युरक्तार्थोपसंहारमाह-सर्वेषामप्येकशरीराश्रितानांजीवानामुक्तप्रकारेण यत् साधारणं साधारणः, सूत्रे नपुंसकतानिर्देशः आर्षत्वात्, आहारः आहारयोग्यपुद्गलोपादानम् यच्च साधारणं प्राणापानयोग्यपुद्गलोपादानं उपलक्षणमेतत् यौ साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिर्वृत्तिः एतत्साधारणजीवानां लक्षणम्। मू. (१३८) जह अयगोलो धंतो जाओ तत्ततवणिजंसकासो। सव्वो अगनिपरिणओ नमिगोयजीवे तहा जाण ॥ वृ. सम्प्रतियथैकस्मिन् निगोदशरीरे अनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह-यथाअयोगोलोभातः सन्तप्ततपनीयसंकाशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतया अनन्तान् जीवान् परिणतान् जानीहि। मू. (१३९) एगस्स दोण्ह तिण्ह व संखिजाण व न पासिउं सक्का। दीसंति सरीराइं निगोयजीवाणऽनंताणं ॥ वृ.एवं च सति-एकस्यद्वयोस्त्रयाणां यावत्संख्येयानां वाशब्दादसंख्येयानांवा निगोदजीवानांशरीराणि द्रष्टुंनशक्यानि, कुत इति चेत्?, उच्यते-अभावात्, न हि एकरादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तोषाम्, कथं तर्हि उपलभ्यानि?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy