SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४ प्रज्ञापनाउपाङ्गसूत्रं-१- १/-/-/१३२ एए अनंतजीवा कंदुक्क होइ भयणा उ ॥ वृ. एते कुहनादिवनस्पतिविशेषा लोकतः प्रत्येतव्याः, एते चानन्तजीवात्मकाः, नवरं कंदुक्के भजना, सहि कोऽपि देशविशेषादनन्तः -- अनन्तजीवात्मको भवति, कोऽप्य सङ्घयेयजीवात्मक इति । आह- किं बीजजीव एव मूलादिजीवो भवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशङ्कयाहमू. (१३३) बीए जोणिब्भूए जीवो वक्कमइ सो व अन्नो वा । जोऽवियं मूले जीवो सोऽविय पत्ते पढमयाए ॥ वृ. बीजे योनिभूते -योन्यवस्थां प्राप्ते, योनिपरिणाममजहतीति भावः, बीजस्य हि द्विविधा - वस्था, तद्यथा-योन्यवस्था अयोन्यवस्था च, तत्र यदा बीजं योन्यवस्थां न जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभिधीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवह्नियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिकं तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते 'स एव' पूर्वको बीजजीवः अन्यो वा आगत्य तत्रोत्पद्यते, किमुक्तं भवति ? -यदा बीजजीवनिर्वर्त्तकेन जीवेन स्वायुषः क्षयात् बीजपरित्यागः कृतो भवति, तस्य च वीजस्य पुनरम्बुकालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रे उपनिबध्य बीजे उत्पद्यते - तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिबीजः, 'योऽपि च मूले जीव इति' य एव मूलतया परिणमते जीवः सोऽपिच पत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकत' के मूलप्रथमपत्रे इति । मू. (१३४) सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ । सो चेव विवडुंतो होइ परित्तो अनंतो वा ॥ वृ. आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते ?, उच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुत्सूनावस्थां करोति, ततस्तदनन्तरभाविनीं किसलयावस्थां नियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं स्वशरीरतया परिणमय्य तावद्वर्द्धते यावत्प्रथमपत्रमिति न विरोधः, अन्ये तु व्याचक्षते - प्रथमपत्रमिह याऽसौ बीजस्य समुच्छूनावस्था, तेन एकजीवकर्त्त के मूलप्रथमपत्रे इति, किमुक्तं भवति ? - मूलसमुच्छूनावस्थे एकजीवकर्तृके, एतच्च नियमप्रदर्शनार्थमुक्तं मूलसमुच्छूनावस्थे एकजीवपरिणामिते एव, शेषं तु किसलयादि नाश्यं मूलजीवपरिणामाविर्भावितमिति, ततः सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्याद्यपि वक्ष्यमाणमविरुद्धं, मूलस-मुच्छूनावस्थानिर्वर्त्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानां सर्वकालं शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति ?, तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy