________________
प्रज्ञापनाउपाङ्गसूत्रं - १-१/-/-/१५५
चासौ पृथिवी च २ तस्यां नैरयिका रत्नप्रभापृथिवीनैरयिकाः, एवं 'सक्करप्पहापुढविनेरइया' इत्यादि भावनीयम्, उपसंहारमाह - 'सेत्तं नेरइया' ॥
अधुनोद्देशक्रमप्रामाण्यानुसरणतस्तिर्यक्पञ्चेन्द्रियान् प्रतिपिपादयिषुराह
५०
मू. (१५६ ) से किं तं पंचिंदियतिरिक्खजोणिया ?, पंचिंदियतिरिक्खजोणिया तिविहा पन्नत्ता, तं०-१ जलयरपंचिंदियतिरिक्खजोणिया य १ थलयपंचिंदियतिरिक्खजोणिया य २ खहयरपंचदियतिरिक्खजोणिया य ३ ।
वृ. अथ के ते पञ्चेन्द्रियतिर्यग्योनिका ?, सूरिराह - पञ्चेन्द्रियतिर्यग्योनिकास्त्रिविधाः प्रज्ञप्ताः, तद्यथेत्यादि, 'जलयरे -' त्यादि, जले चरन्ति - पर्यटन्तीति जलचराः, 'आधारादिति' टप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च जलचरपञ्चेन्द्रियतिर्यग्योनिकाः, स्थले चरन्तीति स्थलचराः, खे– आकाशे चरन्तीति खचराः, प्राकृतत्वादार्षत्वाच्च 'खहचरा' इति सूत्रे पाठः, तत उभयत्रापि पञ्चेन्द्रियतिर्यग्योनिकशब्देन सह विशेषणसमासः ।
मू. (१५७) सेकिं तंजलयरपंचिंदियतिरिक्खजोणिया ?, जलयरपंचिंदियतिरक्खजोणिया पंचविहा पन्नत्ता, तं० - १ मच्छा २ कच्छभा ३ गाहा ४ मगरा ५ सुसुमारा ॥
सें किं तं मच्छा ?, मच्छा अनेगविहा पन्नत्ता, तं०-सण्हमच्छा खवल्लमच्छा जुंगमच्छा विज्झडियमच्छा हलिमच्छा मगरिमच्छा रोहियमच्छा हलीसागरा गागरा वडा वडगरा गब्भया उसगारा तिमितिमिंगिला नक्का तंदुलमच्छा कणिक्कामच्छा सालिसत अथियामच्छा लंभणमच्छा पडागा पडागाइपडागा जे यावन्नेतहप्पगारा, सेत्तं मच्छा ॥
वृ. अथ के ते जलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पञ्चविधाः प्रज्ञाप्तः, तदेव पञ्चविधत्वं तद्यथेत्यादिनोपदर्शयति १ मत्स्याः २ कच्छपाः, सूत्रे पकारस्य भकारः प्राकृतत्वात् ३ ग्राहा ४ मकराः ५ शिशुमाराः, प्राकृतत्वात्सूत्रे 'सुसुमारा' इति पाठः । मत्स्यादीनां च विशेषा लोकतो वेदितव्याः,
मू. (१५८) से किं तं कच्छभा ?, कच्छभा दुविहा पन्नत्ता, तं० -अट्ठिकच्छभा य मंसकच्छभा य से त्तं कच्छभा ॥
वृ. नवरमस्थिकच्छपा मांसकच्छपा इति-ये अस्थिबहुलाः कच्छपास्ते अस्थिकच्छपाः ये मांसबहुलास्ते मांसकच्छपाः ।
मू. (१५९) से किं तं गाहा ?, गाहा पंचविहा पन्नत्ता, तं०-१ दिली २ वेढगा ३ मुद्धया ४ पुलया ५ सीमागारा, से त्तं गाहा ॥
मू. (१६०) से किं तं मगरा ?, मगरा दुविहा पन्नत्ता, तं - १ सोंडमगरा य २ मट्ठमगरा य, से त्तं मगरा ।। से किं तं सुसुमारा ?, सुसुमारा एगागारा पन्नत्ता, से त्तं सुसुमारा। जे यावन्ने तहप्पगारा । ते समासओ दुविहा प० तं० - संमुच्छिमा य गब्भवक्कंतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा, प०, तं० - इत्थी पुरिसा नपुंसगा ।
एएसिणं एवमाइयाणं जलयरपचिंदियतिरिक्खजोणियाणं पज्जत्तापजत्ताणं अद्धतेरसजाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीति मक्खायं । सेत्तं जलयरपंचिंदियतिरिक्खजोणिया
वृ. 'ते समासओ' इत्यादि, तेजलचरपञ्चेन्द्रियतैर्यग्योनिकाः समासतः - संक्षेपेण द्विविधाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International