SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं-१-१/-1-1११९ प्रत्येकजीवत्वपरिज्ञानाय लक्षणमाह-'जस्स मूलस्से' त्यादि गाथाचतुष्टयं, यस्य मूलस्य काष्ठात्-मध्यसारात्छल्ली-वल्कलरूपा तनुतराभवतिसा परित्तजीवा' प्रत्येकशरीरजीवात्मिका द्रष्टव्या, 'जेयावन्नातहाविहा' इतियापिचान्याअधिकृतयाप्रत्येकशरीर-जीवात्मकत्वेन निश्चितया छल्लया समानरूपा छल्ली सापितथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या, ____ एवं कन्दादिविषया अपि तिम्रः गाथा भावनीयाः ।। यदुक्तम्-‘जस्स मूलस्स भग्गस्स समो भङ्गो पदीसइ' इत्यादि, तदेव लक्षणं स्पष्टं प्रतिपिपादयिषुरिदमाहमू. (१२०) चक्कागं भज्जमाणस्स, गंठी चुन्नघनो भवे । पुढविसरिसेण भेएण, अनंतजीवं वियाणाहि ॥ वृ. 'चक्काग मित्यादि, चक्रकं-चक्राकारं एकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलकन्दस्कन्धत्वक्शाखापत्रपुष्पादेर्भवति तन्मूलादिकमनन्तजीवं विजानीहि इति सम्बन्धः, तथा 'गंठी चुन्नघनो भवे' इति ग्रन्थिः पर्वसामान्यतो भङ्गस्थानं वास यस्य भज्यमानस्य चूराणेन-रजसा धनो-व्याप्तो भवति ।।अथवा यस्य पत्रादेर्भज्यमानस्य चक्राकारं भङ्गं ग्रन्थिस्थाने रजसा व्याप्तिं च विना पृथिवीसदशेन भेदेन भङ्गस्थानं भवति, सूर्यकरनिकरप्रतप्तकेदारतरिकाप्रतरखण्डस्येव समो भङ्गो भवतीतिभावः तमनन्तकायं विजानीहि ।। मू. (१२१) गूढसिरागंपत्तं सच्छीरं जंच होइ निच्छीरं। जंपिय पणट्ठसंधिं अनंतजीवं वियाणाहि ॥ वृ.पुनरपिलक्षणान्तरमाह-यत्पत्रंसक्षीरंनिःक्षीरंवागूढशिराकं अलक्ष्यमाणशिराविशेष यदपि च प्रनष्टसन्धि-सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धि तदनन्तजीवं विजानीहि । मू. (१२२) पुप्फा जलया थलया य बिंटबद्धा य नालबद्धा य। संखिज्जमसंखिज्जा बोद्धव्वाऽनंतजीवा य॥ वृ.सम्प्रति पुष्पादीगतं विशेषमभिधित्सुराह-पुष्पाणिचतुर्विधानि, तद्यथा-जलजानिसहस्रपत्रादीनि स्थलजानि-कोरण्टकादीनि, एतान्यपिच प्रत्येकंद्विधा, तद्यथा-कानिचिन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि, अत्र एताषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्घयेयजीवानि कानिचिदसङ्खयेयजीवानि कानिचिदनन्तजीवानि यथाऽऽगमं बोद्धव्यानि। मू. (१२३) जे केइ नालियाबद्धा पुप्फा संखिजजीविया भणिया। निहुया अनंतजीवा जे यावन्ने तहाविहा ।। वृ.अत्रैव कञ्चिद्विशेषमाह-यानि कानिचित् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानितीर्थकरगणधरैः,स्निहुः-स्निहूपुष्पं (थोहरपुष्पं) पुनरनन्तजीवं, यान्तपि चान्यनि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि-अनन्तजीवात्मकानि ज्ञातव्यानि॥ मू. (१२४) पउमुप्पलिनीकंदे अंतरकंदे तहेव झिल्ली य। एए अनंतजीवा एगो जीवो बिसमुणाले । वृ. पद्मिनीकन्दः-उत्पलिनीकन्दः, अन्तरकन्दो-जलजवनस्पतिविशेषकन्दः, झिल्लिका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy