________________
प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/२९
या विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्चगन्धौ सुरभीतरभेदाद्वौ रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टौ, एकैकस्मिंश्च वर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः,
तथाहि-भ्रमरकोकिलकज्जलादिषु तरतमभावात्कृषणकृष्णतरकृष्णतमेत्यादिरूपतया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि,तथा परस्परंवर्णानां संयोगतो घूसरकवूरत्वादयोऽनेकसङ्ख्या भेदाः, एवंगन्धादीनामपि परस्परंगन्धादिभिःसमायोगाद, अतो भवन्ति वर्माद्यादेशैः सहस्राग्रशो भेदाः, 'सङ्घजाई जोणिप्पमुहसयसहस्साइंति सङ्घयेयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि,
तथाहि-एकैकस्मिन् वर्णेगन्धेरसे स्पर्शेचसंवृतायोनिः पृथिवीकायिकानां, सापुनस्रधासचित्ता अचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येक तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशिष्टवर्णादियुक्ताः सङ्ख्यातीताअपि स्वस्थाने व्यक्तिभेदेन योनयो जातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्खयेयानि पृथिवीकायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पज्जत्तगनिस्साए' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युकामन्ति-उत्पद्यन्ते, क्रियन्त इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रयाऽसङ्खयेयाः-सङ्ख्यातीता अपर्याप्तकाः, उपसंहारमाह-'सेत्त'मित्यादि निगमनत्रयं सुगमम् ॥ तदेवमुक्ताः पृथिवीकायिकाः, सम्प्रत्यप्कायिकप्रतिपादनार्थमाह
मू. (३०) से किंतंआउक्काइया?, आउक्काइया दुविहा पन्नत्ता, तंजहा-सुहुमआउक्काइया यबादरआउक्काइयायासे किंतंसुहुमआउक्काइया?,सुहुमाउका० दुविहा पन्नत्ता, तंजहा-पज्जत्तसुहुमआउकाइया य अपजत्तसुहुमआउकाइया य, सेत्तं सुहुमआउकाइया।
से किं तंबादरआउकाइया?, २ अनेगविहा पन्नत्ता, तंजहा-उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अम्बिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए,
-जेयावन्नेतहप्पगाराते समासओदुविहा पन्नत्तातं०-पजत्तगाय अपज्जत्तगाय, तत्थ गंजेते अपञ्जत्तगा तेणं असंपत्ता, तत्थणंजेते पज्जत्तगाएतेसिंवण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाईसंखेनाइजोणिप्पमुहसयसहसाई, पज्जत्तगनिस्साएअपजत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखिज्जा, सेतं बादरआउक्कायिया, सेतं आउकाइया।
वृ. सुगमम्, 'उस्सा' इत्यवश्यायः त्रेहः हिमं' स्त्यानोदकं ‘महिका' गर्भमासेषु सूक्ष्मवर्षः करको-घनोपलः हरतनुर्योभुवमुद्भिद्य गोधूमाकुरतृणाग्रादिषु बद्धो बिन्दुरुपजायते 'शुद्धोदकं' अन्तरिक्षसमुद्मवं नद्यादिगतं च, तच्च स्पर्शरसादि भेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति'शीतोदकं' नदीतडागावटवापीपष्करिण्यादिषु शीतपरिणामं 'उष्णोदकं' स्वभावत एव क्वचिन्निर्झरा- दावुष्णपरिणामं 'क्षारोदकं' ईषल्लवणस्वभावं यथा लाटदेशादौ केषुचिदवटेषु 'खट्टोदकम् ईषदम्लपरिणामं 'अम्लोदकं' स्वभावत् एवाम्लपरिणामं काजिकवत्
__ लवणोदकं लवणसमुद्रे वारुणं वारुणसमुद्रे क्षीरोदकंक्षीरसमुद्रे क्षोदोदकंइक्षुसमुद्रे रसोदकं पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकाराः-रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अकायिकाः तेसर्वेबादराकायिकतया प्रतिपत्तव्याः, तेसमासओइत्यादि प्राग्वत्, नवरंसद्धयेयानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org