SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ प्रज्ञापनाउपाङ्गसूत्रं-१-१२/-/-/४०४ वातकायस्याप्यौदारिकशरीराणिपृथिव्यादिवत्, वैक्रियाणिबद्धान्यसङ्खयेयानि, तानिचप्रतिसमयमेकैकशरीरापहारे पल्योपमासङ्ख्येयभागेन निःशेषतोऽपहियन्ते, किमुक्तं भवति?-पल्योपमासङ्ख्येयमागेयावन्तः समयास्तावत्पर्माणानीतिन पुनरभ्यधिकानि स्युः, तथाहि वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा बादराश्च, एकैके द्विधा-पर्याप्ता अपर्याप्ताश्च, तत्र बादरपर्याप्तव्यतिरिक्ताः शेषास्त्रयोऽपि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु बादरपर्याप्तास्तेप्रतरासङ्ख्येयभागप्रमाणाः, तत्रत्रयाणांराशीनां वैक्रियलब्धिरेवनास्ति, बादरपर्याप्तानामपि सत्येयभागमात्राणां लब्धिः न शेषाणां, आह च चूर्णिकृत्-"तिण्हं ताव रासीणं वेउब्बियलद्धीचेवनत्थि, बायरपज्जत्ताणपिसंखेजइभागमेत्ताणंलद्धीअस्थि"त्ति, ततः पल्योपमासब्जयेयभागसमयप्रमाणा एव पृच्छासमयेवायवो वैक्रियवर्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते-सर्वेवायवोवैक्रियवर्तिनएव, अवैक्रियाणांचेष्टायाएवासम्भवात्, तदसमीचीनं, वस्तुगतेरपरिज्ञानात, वायवो हि स्वभावाचलास्ततोऽवैक्रिया अपि ते वान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः,आहचंचूर्णिकृत्-"जेणसव्वेसुचेव लोगागासेसुचला वायवो वायंति तम्हाअवेउब्बियाविवायावायंतीतिधित्तब"मिति, मुक्तानिवैक्रियाण्यौधिकमुक्तवत्, तैजसकार्मणानिबद्धानिबद्धौदारिकवत्मुक्तान्यौधिकमुक्तवत्, वनस्पतिकायिकचिन्तायामौदारिकाणि पृथिव्यादिवत, तैजसकार्मणान्यौधिकतैजसकार्मणवत्। द्वीन्द्रियसूत्रेबद्धान्यौदारिकशरीराणि असङ्ख्येयानि, ततः कालतः परिमाणचिन्तायामसङ्ख्येयामिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते-असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यावन्तःसमयास्तावप्रमाणानीति भावः, क्षेत्रतोऽसङ्ख्येयाः श्रेण्योऽसङ्ख्यातासु श्रेणिषुयावन्त आकाशप्रदेशास्तावप्रमाणानीत्यर्थः, तासांश्रेणीनांपरिमाणविशेषनिर्धारणार्थमाह-प्रतरासङ्खयेयभागः प्रतरस्यासद्धयेयभागप्रतिताअसद्धयेयाश्रेणयः परिगृह्यन्तेइतिभावः । प्रतरासङ्ख्येयभागोनैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थं सूचीमानमाह-'तासि णं सेटीण मित्यादि, तासांश्रेणीनांपरिमाणावधारणायया विष्कम्भसूचीसा असङ्ख्येयायोजनकोटीकोट्यः असङ्ख्येयोजनकोटीकोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं 'असंखेजाइंसेढिवग्गमूलाइंइति, एकस्याः परिपूर्णायाः श्रेणेयः प्रदेशराशिस्तस्य प्रथम वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसङ्ख्येयतमं वर्गमूलं एतानि सर्वाण्यप्येकत्र सङ्कल्प्यन्ते, तेषुचसझल्पितेषुयावान्प्रदेशराशिर्भवतितावप्रदेशात्मिका विष्कम्मसूचिरवसेया, अत्रनिदर्शनं श्रेणौ किलप्रदेशाअसङ्ख्याताअप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रि शदधिकानि तेषां प्रथमवर्गमूलं द्वेशते षट्पञ्चाशदधिके द्वितीयं षोडश तृतीयं चत्वारः चतुर्थं द्वौएतेषांचसालनेजातेद्वेशतेअष्टसप्तत्यधिके एतावता किलासत्कल्पनयाप्रदेशानांसूचिरिति, अर्थते द्वीन्द्रियाः किंप्रमाणाभिरवगाहनाभिरास्तीर्यमाणाः कियताकालेन सकलं प्रतरमापूरयन्ति ?,उच्यते, अङ्गुलासङ्ख्येयामागप्रमाणभिरवगाहनाभिःप्रत्यावलिकाऽसङ्खयेयभागमेकैकावगाहनारचेनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरापूर्यन्ते, इयमत्र भावना-एकैकस्मिन्नावलिकायाः असङ्खयेयतमेभागेएकैकाअङ्गुलासङ्ख्येयप्रमाणाअवगाहनारच्यते, ततोऽसङ्खयेयाभिरुत्सर्पिण्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy